Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
तच्छुन्वाचतुर्णामेको मन्त्री बभाषे-निजसंपद्भिश्चन्द्रवद्भासमाना धनाढ्यजनसेविता विशालशालाभिर्विराजमाना चन्द्रावती नाम नगरी बभूव । तस्या चन्द्रसेननामा कश्चित्क्षत्रियोन्यवसत् । सच विद्याभ्यासकलासुनिपुणोऽपि निर्धनावस्थोऽभूत्, शरीरकान्त्या तर्जितमन्मथरूपोऽपि स दैवयोगेनदुःस्थितिमन्वभूत् । तस्य चैकाचन्द्रसेनाऽभिधाना भार्या बभूव । सा महारूपवत्यपिदुराचारसेविनी क्रूरस्वभावाचासीत् । निजभतारं चन्द्रसेनं सा प्रत्यहं भृशमुद्वेजयतिस्म । तदुःखेनदुःखितश्चन्द्रसेनो दिवानिशं शोकसागरेनिमग्नोनिजकर्त्तव्यपराङ्मुखोऽभवत् । निजपति महागुणनिधिं जानन्त्यपि सासदैव तंतिरस्कुर्वन्ती परपुरुषेपुरागवतीजज्ञे । इत्थं तदीयकुचरितानि विलोक्य वित्रस्तहृदयश्चन्द्रसेनो निजहयंत्यक्त्वा देशान्तरं प्रययो । कियताकालेन परिभ्रमन्पबपुराभिधपत्तनंप्राप । तत्र स भाटकेन गृहं स्वीकृत्यन्यवसत् । तन्नगरवासिभिः सह मैत्री विधाय विद्याविशारदः स कलाप्रयोगेण प्रतिदिनं द्रव्योपाजेनं कर्तुं लग्न:-तस्मिंश्चनगरे विशालमार्गा बृहज्जनव्याकुलैका विपणी समस्ति । तत्र महाधनाढ्या अनेके व्यवहारिणो निवसन्तिस्म । कार्यवशात्तत्र गमनागमनं कुर्वतश्चन्द्रसेनस्य बालचन्द्र नाम्नाकेनचिद्वयवहारिणा साकं मैत्री जज्ञे । ततः स प्रतिवासरं निवृत्तिसमये घटिकामात्रमपि बालचन्द्रस्य सन्निधौवार्ताविनोदायावजत् । एवं प्रत्यहंगच्छंश्चन्द्रसेनोऽन्यदा नगरविलोकनार्थ परिभ्रमन् कस्यचिद्व्यवहारिणः प्रासादस्य सनिधी गत्वास्थितः, ऊर्ध्वचनिरीक्षमाणः स गवाक्षे सन्निविष्ट रूपलावण्यैकवसति प्राप्ततारुण्यां मनोहारिणीं चातुर्यकलाभिर्विराजितामिषद्धास्यवितन्वन्ती चन्द्रवदनां मेनावत्यभिधास्त्रियमपश्यत् । तदानीं तत्स्वरूपं निरूप्य विस्मितमानसश्चन्द्रसेनः स्वचित्ते विकल्पयतिस्म. अहो ? कीदग्विधं निःसीमतेजोलावण्यमन्दिरमिदं स्त्रीरत्नं विधात्रा निजचातुर्यकलापेनविनिर्मितमस्ति ?
For Private And Personlige Only

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244