________________
Acharashn KalamagurunGyanminar
तृतीय: प्रस्ताका
युवतिरक्षतस्नेहा न भवति । तद्यथाअजितसेना शास्त्र सुनिश्चितधियापरिचिन्तनीय-माराधितोऽपि नृपतिः परिशङ्कनीयः । आत्मीकृताऽपि युवतिः परिरक्षणीया, शास्त्रे भीलवती नृपेचयुवतीच कुतः स्थिरत्वम् ॥१॥ ततः सभूपतिः शङ्कितमनाः संशयविस्मयाभ्यां समन्वितः सार्थवाहस्य भार्ययोः कपटचयों चरितम् ।
विलोकतेस्म । अनङ्गदेवोऽपि स्त्रीचरित्रं निरीक्ष्यस्मितमादधानो निजोचितांक्रियां समाचरत् । ततः पातालसुन्दरी सशर्करंदग्ध
नृपतेर्यथारुचिपरिवेष्य गृहापवर्कमियाय । नृपतिरपितदुग्धविषमिव विषमं मन्यमानो मुनिरिवधृतमौनो निःस्वादतया पिबतिस्म । ॥७२।। ततः सार्थवाहः पूगीफलताम्बूलादिकं मुखवासंदचा महीधर्वमहामूल्यैर्वसनाभरणैः सत्कृत्य सन्तोषयामास । अथ गृहीतसत्कारो
नृपतिः परिजनपरिकरितः सत्वरंस्वप्रासादमगमत् । इतः पातालसुन्दर्यपि तद्वेष परित्यज्य स्वकीयवस्त्राणि परिधायशीघ्रतयासुरङ्गमार्गेण भूगृहंगत्वा स्वकीयशय्यायां निश्चिन्तमानसा सुष्वाप । अथ सञ्जातसन्देहो भूपतिः कुशिकाः समादाय मुद्रितानि सर्वाणितालकानिसमुद्घाट्य भूगृहान्तरेसमागत्यविलोकयामास, यथापुराप्रसुप्तांविमुच्यनृपतिर्गतस्तथैवतदानीमपि निद्रितांता ददर्श । ततो विस्मितमानसो भूपतिस्तामुत्थापयामास । साऽप्युज्जृम्भमाणा निद्रावस्था व्यञ्जयन्ती समुत्तस्थौ। ता तथावस्था विलोक्य नृपतिः स्वचेतसि व्यचिन्तयत्-वणिग्गृहे या प्रमदा मया व्यलोकि, सात्वपरैव, इत्थं स्वमनसि समाधाय तेन रत्नोब्लसितवस्त्राभूषणानि तस्यै तद्योग्यानि यथाभिलषितं प्रदत्तानि । यतस्तस्यां कूटकारिण्यां भार्यायांमनागपि दोषस्तेन न विलोकितः । अतस्तया साकै पूर्ववत्प्रेमभरं वहमानो नृपतिर्विषयसुखमनुबभूव । अहो ? धूर्तजनस्य चित्रचरित्रन्तु धूर्तजना एव जानन्ति । यतो धूर्ताः सत्यस्यव्यलीकतामसत्यस्य सत्यताञ्च दर्शयित्वा मुग्धजनान्प्रतारयन्ति । अथैकस्मिन्दिवसे
॥७२॥
For Private And Persone
n