________________
ShriMahavir JanArchanaKendra
Achanah
Gyan
पातालसुन्दरी गर्वभावमावहन्ती तं सार्थवाहं सुप्रसन्न विधाय कथयतिस्म-प्रियपते ? इदानीत्वं देशान्तरदिक्षया प्रयाणतत्परो भव । यतस्तत्रस्थितानि विविधानि कौतुकानि विलोक्य नेत्रसाफन्यं कुर्वः । तथाविधतस्या वचनं निशम्य प्रत्युत्तरं दातुमक्षमः स प्रोवाच-नृपाज्ञां समादातुमहं गच्छामि, कदाचित प्रजापालोऽस्मदीयमिमवृत्तान्तं जानातिचेदावाभ्यां किं कर्तव्यम् । ततः पातालसुन्दरी जगाद-वणिजः प्रकृत्यैव भीरवोविद्यन्ते, इति लौकिकोक्तिरधुनात्वया सत्यापिता । साथैवाह ? इदानीं ममचातुर्य वं विलोकय, तावत्वं प्रवहणानि प्रगुणानि कारयस्व । यैश्चावां सागरं समुल्लंङ्घय सत्वरं देशान्तरं वजाव । भवतावत्यः सकलोव्यापार: संकोच्यताम् । उद्धारकस्थितं यत्किमपिद्रव्यं तत्सर्व स्वग्राह्यवस्वादिकं च परिगृह्य सञ्जीभव । यदहं ब्रवीमितद्वचनंत्वयापालनीयम् , तथा करणेनतवशुभं भविष्यति । सर्वेभ्योव्यवहारबन्धनेम्योमुक्तोमव । इत्थं तदीयामुक्ति समाकर्ण्य साहसिककार्योधमात्पराङ्मुखोऽपि प्रभीतहृदयः सार्थवाहः कारागृहस्थित इव तद्वचनपाशेन निबद्धस्तया सार्द्ध प्रयातुं सजीवभूव । अहो ? कामिनीमुखनिरीक्षणे लोलुपानां नराधमानां जीवितं धिक् । यतो नरा बाल्यावस्थायां मातरं विलोकयन्ति, प्राप्तयौवनाः प्रमदाधीना भवन्ति, चरमावस्थायां च पुत्रादिपरिवारसुखं समीहन्ते, परन्त्वेते विमूढधियः स्वहित प्रेक्षणं जातुचित्रकुर्वन्ति । यतः- इच्छानुसारिकुधियो विषयेषुरक्ता-जानन्ति नो स्वहितमुन्मथितस्वभावाः। कर्मानुसारिगतयो | मनुजा लभन्ते, दुःखानि कालवशतः सुखसंपदश्च ॥१॥ अथ पातालसुन्दरी तं सार्थवाहमुवाच-त्वंनृपतेः समीपंगत्वेति कथय, मम मातापितरौरुजार्जितौ स्तस्तस्मात्ताभ्यामहं सत्त्वरं समाकारितोऽस्मि, अतोऽहं तत्रजिगमिपया भवदाज्ञा समानेतुं समागतोऽस्मि । भवानिदानीं महान्तं प्रसादं विधाय मे प्रयाणस्याज्ञांददातु । प्रयाणावसरे च मां संभावयितुं भवत समागन्त
For Private And Personlige Only