________________
ShriMahavir JanArchanaKendra
Achahn
sagan Gyaan
तृतीया प्रस्तावः।
व्यम् । इत्थं पातालसुन्दर्या मृषोक्तिवादं निशम्यकिचिडूनोऽपि सार्थवाहासुविनीतः शिष्य इव तदुक्तं वचनं प्रमाणयन्नअजितसेनपान्तिकं समागत्यप्रोवाच-पृथ्वीपाल ? मममातापितरौचरमावस्थामनुभवन्तावधुना मरणाभिमुखौ सञ्जातो, मद्वियोगजन्यशीलवती- दुःखेन भृशंदुःखातातौमामाशु पत्रद्वारेण समाह्वयतः । अतो देवेन मय्यनुग्रहं विधाय गमनादेशः प्रदीयताम् । अस्मिन्नगरे परितम् ।
निवसतामया भवतः प्रसादेन प्रभूतासमृद्धिः समुपार्जिताऽस्ति । त्वदुपकारमाजीवितान्तं प्रतिकर्तुमसमर्थोऽस्मि । इत्यनङ्ग
देवस्य स्वदेशगमनसूचकं वचनं समाकर्ण्यनरपतिर्बभाषे-सार्थवाह ? भवादृशां सजनानांदुःसहवियोगजनक आदेशः कथं ॥७३॥
मयावितीर्यते ! निषेधोऽपि कथंक्रियते ? यतोमाव्रजेत्येवं यदिकथयामि तर्हिमङ्गलाभावंतद्वचनं द्योतयति, यदिचगच्छेतिबवीमि तदास्नेहविभङ्गयोतकंवचनंभवेत्, स्थीयतामित्युक्तेच महत्ताप्रकाशकं वचनं निगद्यते, यथेच्छविधीयतामित्यभिधानेनौदासीन्यं प्रतीयते, किश्चेदानीमेवप्रयाणाज्ञां ददामीत्युक्त्या सोपचारं वचनं भवेत् , अतःप्रयाणाभिमुखं भवन्तं किमपि वक्तुं न समर्थोऽस्मि । यदि भवान् गन्तुमना अस्ति तर्हिमद्योग्यं किमपि कार्य निवेद्य मां कृतार्थय, अधुना निवेदनीयस्याच्चेत्तनिवे. दय, यदिवा पश्चाभिवेदनीयंतर्हिसुखेन पश्चाद्वक्तव्यम् । इत्थं नृपतिगदितांसुधामुक्ति निशम्यसार्थवाहोजगाद-नरनाथ' भवतो भूयस्या कृपया मम सर्वाणि कार्याणि सिद्धानिजातानि, तथापिभवान्सन्तुष्टश्चेन्ममप्रयाणावसरे जलधितटपर्यन्तं भवता समागन्तव्यम् । येन ममदिगन्तकीर्तिः प्रसरेत् । सर्वत्रलोकेनृपमान्यस्य जनस्य यशःसन्ततिविस्तारंप्रयाति । यतः-सन्मानमासाब नरेन्द्रदत्तं, पूजा लभन्तेत्र परांजनेषु । विनैव यत्नेन महोबतीनां, पदंसुलम्यंमहाप्रसादात् ॥ १॥ इत्येतत्सार्थवाहवचनं नरेश्वरेणाङ्गीचक्रे । अहो ? महतो प्रवृत्तिः कीदृशीभवतीतिविलोक्यताम्, यद्वचनमितरजनोवदति तत्प्रेम्णा ते प्रमाणयन्ति ।
॥७३॥
For Private And Personlige Only