________________
ततःप्रमोदमेदुरसार्थवाहःशुभमुहूर्तेबहूनि प्रवहणानिप्रभूतैःक्रयाणकैः संभृत्य प्रगुर्णाकृतवान् । स्वयंचशिबिकायामुपविश्य पयोधेस्तटप्रदेश जगाम । तस्मिन्नवसरेनृपतिरपिनरवाहनं समारूढस्तत्रैवसपरिवारः समागात् । पातालसुन्दर्यपिशिविकायामुपविश्य तत्रागत्य स्वकीयपुण्येन मदिष्टंकार्यसञ्जातमितिबुढ्याप्रमदंधारयन्ती राजानं विहिताञ्जलिः प्रोवाच-धराधिप । त्रिलोकनाथस्यमहान्प्रसादोऽस्मासुवर्त्तते, भवतश्चाऽपितथैवास्ति, त्वदनुग्रहेणैवमदीयः स्वामी प्रभूतासम्पदमलभत । भवतःकृपाकटाक्षेणदुःसाध्यान्यपि कार्याणिसिद्धिप्रदान्यभूवन् । राजन् ? बहुमानावलेपेनाज्ञतया प्रमादाद्वात्वयिमनागप्यपराधाचरणंमया विहितश्चेत्तत्सर्व भवताचन्तव्यम् । प्रभो ? भवतश्चरणोपासकानस्मान्मत्वा कस्मिन्नपिसमये स्मरणीया वयम् । विशेषतो वणिग्जातितुकः स्मरेत् ? परन्त्वेतावदस्माकं कथनमुचितमेवेत्युक्त्वा सा विरराम । अहो ! पांसुलाया धाय विलोक्यताम् ? एवंविधानि तदुक्तवचनानि निशम्य भूपतिय॑चिन्तयत्-राज्यासनसेविनंमांधिग्, इयमङ्गनातुपातालसुन्दर्येवास्तिनाऽन्या । अथवा समानाकृतयः केचनभवन्ति । पातालसुन्दरीभूगृहवर्तिनी कथमत्रसंभाव्यते ? पुराऽपि भोजनकालेममैतादृशो भ्रमोजनितथैवाऽयमपिभ्रान्तिजनकोविचारोविद्यते । एवं निजमनसिसमाधानंविधायवर्मन्यगच्छत् । क्रमेण सर्वेसपरिवारा जलधितटंप्रापुः । तदानीं सत्वरंसार्थवाहो भूपति प्रणम्य पातालसुन्दरीसमेतो महतिप्रवहोनिषसाद । नृपादयः सर्वेपश्चाद्वलिताः । भूपतिः स्वप्रासादमवाप्यमच्छुद्धिंकारयेच्चेन्मम कागतिरितिशङ्कांदधाना पातालसुन्दरी सार्थवाह कथयितुं लग्ना, हे कान्त ? अस्मदीयानिप्रवहणानिमार्गान्तरेशीघ्रंवाहयतु । इत्थंतत्कथनमात्रादेवमनोनेत्रवायुवेगेनमिथस्ताड्यमानाः कल्लोला इवतानि प्रवहणानिप्रचेलुः । ततः सा पातालसुन्दरीषाण्मासिकावधि तस्मिन्प्रवहणे तेन सार्थवाहेन सार्द्ध
For Private And Persone
ly