________________
कारैर्विभूषिता पातालसुन्दरी विविधानि भोज्यवस्तूनि परिवेषयन्ती निजचातुर्यकला भूपतिं दर्शयामास | अहो ! स्त्रीजातेः कीदृशं तत्वम् । अथ नृपोऽपि भोजनं कुर्वाणो निजभार्या पातालसुन्दरीं विलोक्य संजातविस्मयो व्यचिन्तयत्-अहो ? भूमिगृहस्थिताऽसौकथमत्र समायाता ? अथवा नैषा पातालसुन्दरी, तत्समानाकृतयः किमन्या रमण्यो न भवेयुः ? मदीयोः | ऽयं भ्रमोऽस्ति, सा बराक्यत्रकुतः समायाति ! इदानीमेवाहं तदन्तिकादागतोऽस्मि । सा च जन्मतः प्रारभ्य सरलभावा विद्यते । तस्मान्मत्पत्नीयं नास्ति । इयन्तु भार्याऽस्य सार्थवाहस्यैवविद्यते । तथापि चातुर्यादिगुणैस्तु तामियमनुकरोति, रूपादिसंपत्याऽपि तादृश्येवासो दृश्यते, किश्चिन्मात्रोऽपि विभेदोन विलोक्यते। मत्पन्या अस्याश्चोभयोः सादृश्यकथं युज्यते ? अस्य वृत्तान्तस्ययथार्थ स्वरूपं को जानाति । अस्यनिर्णयमपि कोविदच्यात् । इत्थं स्वचेतसि विचार्य तस्या अभिज्ञानार्थ धृकशिरोमणिः सा पातालसुन्दरी परिवेष्य यावन्महानसं प्रयातितावत्तेन भूपतिना तस्या वस्त्राश्चले सर्पिषोबिन्दुरपाति। तद्धृतबिन्दुनादूषितं निजवसनंविलोक्य सा मनसि व्यचिन्तयत् भूधव ? मन्मुखाये तबविज्ञानं कियन्मात्रम् ? शुद्धशीला मां परीचितुं भवता घृतबिन्दुनिक्षेपोविहितोऽस्तीति स्वमनसि गर्व वहमाना सा तालव्यजनं गृहीत्वा वीजयन्ती स्वभारमवोचत्-धरापते ? महोग्रविषकवलितमिव कथमिदं स्वादुतरानं नाऽश्नासि ? इदं भोजनानन्तु सुखेनस्वादनीयं वर्त्तते, तथाऽप्येतद्भोज्यानं वणिज: समस्ति, अतो राजकुलोद्भवाय भवते कथं रोचते किंवा नराधीश ? अस्मदीयं गृहादिवैभवनिरीक्ष्य चमत्कृतिं विदधता भवता शून्यचित्ततया किंन भच्यते ? उत महतां जनानां स्वल्पतरैवक्षुधा भवेत्तस्मा न भक्षयसि । इत्थं मधुरोक्तिं समुगिरन्ती सा स्वकीयचातुर्यकलां दर्शयतिस्म । अहो ? कीदृग्विधोऽस्याधू याश्चेष्टाप्रपञ्चः ? सुरचिताऽपि
For Private And Persone
Only