________________
श्री
तृतीय: प्रस्ताव
अजितसेन शीलवतीचरितम् । ॥७ ॥
भूतस्य तव वृत्तान्तं सर्वत्रनगरे प्रसरिष्यति । ततः स्वस्थीभूय त्वस्ववेश्मनि भोजनार्थ भूपति निमन्त्रयस्व । तदानीमहं रसवती परिवेषमाणा नृपतिं चमत्कारं दर्शयामि । ईदृशं पातालसुन्दर्या वाक्यं निशम्प व्यवहारीतांजगाद-मृगलोचने ! इदृशी लोकविरुद्धाऽनीतिर्मया कथं क्रियते ? भूपतिश्चकेनप्रकारेण निमन्त्र्यते । त्वचनृपतेः सन्निधौरसवत्याः परिवेषणं कथं करिष्यसि ? इदं प्रत्यक्षविरुद्धकार्य सर्वथाऽनाचरणीयं विद्यते । इत्थं तद्वणिग्वचनं निशम्य पातालसुन्दरीबभाषे-वणिग्जातिः प्रकृत्यैवभीरुर्विद्यते, भयमन्तरेणाऽपि सदाभयमेव चिन्तयति । यता-क्षत्रियाभयमालोक्य, शौर्यमादधतेस्वतः। भयेऽप्यनागतेभीरु-र्वणिग्जातिर्हि कम्पते ॥१॥श्रेष्ठिन् ? त्वमस्माकं चरित्रं न जानासि, स्त्रीजातिरहमस्मि । साक्षादिन्द्रोऽपि मया प्रतार्यतेचेदस्यमहीपतेर्मुधापाण्डितमानिनः कियत्सामर्थ्य मदने? तस्मात्त्वं निःशङ्कमनामदीयं वचनमङ्गीकुरु, किमधिकजन्पनेन? यदित्वं मदुक्तंवचनं नपालयिष्यसितर्हि त्वां जीवन्तं किं मोक्ष्यामीति पातालसुन्दर्यावचनं निशम्यभयसंत्रस्तगात्रोऽनङ्गदेव- | स्तत्वणं तदुक्तवार्ता स्वीचकार । भयानॊजनः किं न करोति ? ततोऽनङ्गदेवश्चिरंमन्दप्रकृत्यास्थित्वापुनर्मुधौषधाद्युपचारेण क्रमतः स्वस्थीभूय भोजनसामग्रीप्रगुणीचकार । निज कौटुम्बिकान् समाहृय भोजनदिनं निर्णयामास । भोजनदिने प्रातः समुत्थाय गृहीतप्राभृतः स नृपान्तिकंगत्वा विज्ञपयामास-नरनायक ! प्रभूतेन रोगेण पीडितोऽहं मृततुन्योऽभूवम् । अधुना भवतः प्रसादेन लब्धस्वास्थ्योजातोऽसि । तस्मादस्मिन्वासरेमद्गृहेभोजनोत्सवोवर्त्तते, अतो भवान्सकुटुम्बः समागत्यमांकृतार्थ करोतु । एवं स बह्वाग्रहेण भूपतिना भोजननिमन्त्रणं स्वीकारयामास । ततो भोजनावसरे जाते सपरिवारो नृपतिः श्रेष्ठिनोगृहप्रययौ, तदानीं श्रेष्ठी स्वयमेव भूरिसत्कारपुरःसरं राजानं प्रवरासनेस्थापयित्वा सर्वा व्यवस्थाकारयामास । ततोविधृतसारनेपथ्याऽल
T
॥७१॥
For Private And Person
Only