________________
Shri Mahavir Jain Aradhana Kendra
93+*++++
7000+*****५
www.kobatirth.org
T
निद्रामैथुनप्रमुखानि व्यसनान्यदृष्टाश्रुतान्यपि जन्मान्तराभ्यासवशतोजीवः प्रतिपद्यते । तद्यथा भवान्तरं प्राप्य स एव जीवः, पूर्वार्जितेनापिनिजेन कर्मणा । नियोजितोऽदृष्टमपूर्वमश्रुतं, भावं विजानाति निजौकसीव ॥ १ ॥ अथैवं स्वचेतसि विशङ्कमानः स व्यवहारी तयासाकं विषयसुखानि सुखेन परिशीलयतिस्म । ततस्तावुभौ मिथोमिलित्वा सङ्केतं विधाय सुरङ्गमार्गेचैकां रज्जूं गमनागननहेतवेबबन्धतुः । यदा नृपतिर्भूगृहाद्वहिर्याति तदासा पातालसुन्दरीतां रज्जूं सञ्चालयति, तेन रज्जुप्रयोगेण ज्ञातसङ्केतोऽनङ्गदेवः सद्यस्तत्रसमेति । एवं प्रत्यहं स सार्थवाहोनिषदिवेद्गमनागमन मकार्षीत् । पातालसुन्दरीश्च भोगविलासैः प्रीण - यतिस्म । अथैवं सानारी महाधूर्त्ताविद्यते, तथापि निजभर्त्तारं पतिव्रतात्वं निजमखण्डितं दर्शयति । अहो ! स्त्रीणां चातुर्य कीदृशम् ? - अबलानां चरित्रस्य, मर्यादानैव विद्यते । यदीयकूटभावानां ब्रह्माऽप्यन्तं न गच्छति ॥ १॥ अथान्येद्युः पातालसुन्दरीतमनङ्गदेवमाचख्यौ - व्यवहारिन् ! मयि विद्यमानायांत्वं किञ्चिदपि भयं मा शङ्कस्व, मां त्वद्गृनय, सर्वांनगरशोभां मांदर्शय । इत्थं पुनः पुनस्तयाप्रोच्यमानः सार्थवाहः स्वमनसि भयंदधानोऽपि प्रेमवशात्तद्ववचनंनिषेधुमक्षमस्तां निजगृहंनिनाय । सकलां नगरशोभां च राज्ञीं सदर्शयामास। ततोऽन्यदापातालसुन्दरी निजसहचरस्य वेश्मनोगवाक्षे सन्निविष्टा नगरचर्यामद्राक्षीत्, तस्मिन्समये बहुपरिजनसमन्वितं वनवाटिकायां विश्रामार्थं व्रजन्तं भूपतिं निरीक्ष्य सा निजचेतसि व्यचिन्तयत् - अहो ? अयं नृपतिः स्वयमेवं विविधं क्रीडासुखं सम्पादयति । मान्तुजन्मतः प्रारभ्याद्यावधि भूगृहान्तरेकारासदनोपमेरक्षति । एवं विकल्पयन्ती सा नृपतेः सकाशाद्विरक्ता सतीतमनङ्गदेवमित्यवोचत् - सार्थवाह ? अनेन भूपतिनाहं भ्रूगृहात्मके कारागृहे चिप्ताऽस्मि शीलवत संरक्षणाय । अतस्तंनृपतिं मदीयांशीलविशुद्धिं दर्शयामि । तस्मात्त्वं कपटभावेन रुजार्जितोभव. मन्दी
For Private And Personal Use Only
←←→→→→***********-**-**
Acharya Shri Kassagarsuri Gyanmandir