Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
दीयं रत्नं प्रत्यर्प्यताम् । ईदृशं पूजकोक्तं वचनं समाकर्ण्य रत्नलुब्धमानसस्तेजपालोरक्ताङ्गः सन्नुवाच-देवपूजक ? त्वमपिविपुलमतिर्विभाव्यसे ! रत्नप्रमितं द्रव्यं समादाय तद्रत्नमह्यं दत्तमस्ति, पुनस्तद्गृहीतुमागतोऽसि, परं सावा त्रत्वयानवाच्या। | एवं महेभ्यस्यमृषोक्तिं श्रुत्वा स पूजकः स्वमनसिविस्मितः प्रोवाच-श्रेष्ठिन् ? मौनमाधायशीघ्रं तद्नं मासमर्पय, यस्मादिदंरत्नं तवस्वाधीनमधुनानस्थास्यति । ईदृशीं विषमापूजकोक्ति निशम्यसमहेभ्यः स्वभृत्यैस्तमर्धचन्द्रं प्रदाप्यततोनिष्कासयामास । अथ विलक्षीभूतः स निजगूमागत्यसुगुणसिंह तद्रत्नवृत्तान्तमचीकथत् । ज्ञातसारः सुगुणसिंहः स्वयमेवतत्रगत्वा श्रेष्ठिनमित्यवोचतु-महेभ्यवर्य ! वणि कुलतिलकायमानोभवाँलोकेख्यातिमान्यते, अस्मिन्पत्तने सर्वेषां व्यवहारिणां मध्येत्वमेवप्रथमोनिगद्यसे, सत्यप्येवं रत्नलोभेनस्ववंशपरम्पराजितां यशोवल्लींसमुच्छेत्तुं कथमुद्यतोऽसि ? नाऽयं मृषावादो भवतावक्तुं युज्यते,
साम्प्रतमेव तद्रलं निष्कास्यप्रत्यर्प्यताम् , वृद्धिसहितं सर्वधनंभवदीयं परिगृह्यताम् । इतिकुमारोक्तंवचनंनिशम्य स व्यवहारी*जातचमत्कारोमनसि व्यचिन्तयत्-तद्रत्नमस्य पूजकस्य नास्ति, परन्त्वेतत्कस्यचिद्राजकुमारस्य विद्यते, तस्मादस्याग्रे यदि धूर्तभावं करिष्यामि, तद्यपि तद्रत्नं मदन्तिके न स्थास्यति, प्रत्युत प्रतिष्ठाहानि भविष्यति । अतः कोऽप्येतादृशोऽन्यो युक्तिप्रकारो विधातव्य इति निश्चित्य कुमारं प्रत्यवदत्-महापुरुष! नाहं धनलिप्सया वितथवादिनां पन्थानमनुसरामि, मयातु पूजकस्य किश्चिदुपहास्यतया तथैवोदाहृतमस्ति, एतावता भवदन्तिकमागत्यतेन यन्निवेदितं तत्सर्वं त्वया सत्यतयामानितमित्यभिधाय कुमारस्य सन्निधौ स व्यवहारी निजोक्तं वचनमपन्हुतवान् । पुनस्तेन कुमारः पृष्टः किमेतद्रत्नं भवदीयमस्ति ? कुमारोवदत्-मदीय | मेवतद्रत्नं विजानीहि, यदाऽहं व्याधिग्रस्तकलेवरोऽभूवं तदानीं तेन पूजकेन भवतः पार्थाद्रत्नविनिमयेनाहं निष्कानानाययम्,
For Private And Personlige Only

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244