Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 276
________________ माध्यम् उ० १० सू० ५ आगमादिपञ्चविधव्यवहारनिरूपणम् २४३ जीए' यथ यथा आगमः १, श्रुतम् २, आज्ञा ३, धारणा ४, जीतम् ५ 'तहा तहा ववहारं पट्ट वेज्जा' आगमव्यवहारिणोऽभावे तथा तथा तेन तेन श्रुतव्यवहार्यादिप्रकारेण व्यवहार प्रस्थापयेत् । 'से किमाहु भंत ?' अथ किमेवमाहुर्भदन्त ! हे भदन्त ! कथमेवं कथयसि यत् प्रथममागमव्यवहारिणैव व्यवहार प्रस्थापयेदित्यागमस्य प्राथम्यं ददाति ? तत्राह-'आगमबलिया समणा णिगंथा' आगमबलिकाः आगम एव बलं येषां ते आगमबलिकाः आगमाधारवन्त एव श्रमणा निम्रथा भवन्ति, आगमबलेनैव श्रमणा निर्ग्रन्था आगमेनैव व्यवहरन्ति, आगमस्य तीर्थकरैः स्वमुखाँच्चरितत्वादिति । 'इच्चेयं पंचविहं ववहारं' इत्येतं-पूर्वप्रदर्शितं पञ्चविधं पञ्चप्रकारक व्यवहारम् ; 'जया जया जहि जहि' यदा यदा यत्र यत्र ये ये आगमादिव्यवहाणिो भवन्ति 'तया तया तर्हि तर्हि' तदा गदा तत्र तत्र-तेषां तेषां समीपे, 'अणिस्सिओवस्सियं' अनिश्रितोपश्रितं यथा स्यात्तथा कस्यापि निश्रां वर्जयित्वा-यथा अमुकस्य निश्रयाऽऽलोचनां करोति तदा-स न्यू प्रायश्चित्तं दास्यतीत्येवंरूपां निश्रां विवर्ण्य 'ववहरमाणे समणे णिग्गंथे आणाए आराहए भवई' व्यवहरन्-व्यवहारं कुर्वन् श्रमणो निम्रन्थः आज्ञायाः-तीर्थकराज्ञाया आराधको भवतीति ।। ___अत्राऽऽगमादिपञ्चसु व्यवहारिषु क्रमेण व्यवहारः प्रस्थापयितव्यः, यदि व्युत्क्रमेण व्यवहरति तदा चत्वारो गुरुमासाः प्रायश्चित्तं भवति, अयं भावः-आगमे विद्यमाने श्रुतादिभिर्व्यवहारं करोति । श्रुते विद्यमाने आज्ञादिभिर्व्यवहरति । आज्ञाव्यवहारे विद्यमाने धारणाव्यवहारं प्रस्थापयति । धार गायां विद्यमानायां जीतेन व्यवहारं प्रस्थापयति । इत्येवं व्युत्क्रमेण व्यवहारप्रस्थापने साधुश्चतुर्गुरुकादिप्रायश्चित्तभाग् भवतीति विज्ञेयम् । प्रथमं मुख्यतया आगमव्यवहारिसमीपे एवालोचना कर्त्तव्या भवेत् । आगमव्यवहारिणोऽपि षइविधा भवन्ति तत्रापि क्रमेणैव व्यवहारः प्रस्थापनीयः, यथा प्रथमं केवलज्ञानिसमीपे आलोचना कर्त्तव्या, स चालोचकस्य सर्वमतिचारं जानाति, न तस्य समीपे माया कत्तुं शक्यते १, तदभावे मनःपर्यवज्ञानिपाचे २, तदभावेअवधिज्ञानिपश्र्वे ३, तदभावे चतुर्दशपूर्वधरसमीपे ४, तदभावे दशपूर्वधरसमीपे ५, तदभावे नवपूर्वधरसमीपे ६, आलोचना ग्रहीतव्या । पूर्वपूर्वाऽभावे उत्तरोत्तरो ग्राह्यः । एवमग्रे श्रुतव्यवहारादिविषयेऽपि मर्यादा बोध्या । ननु यस्मिन् काले भगवन्तो गणधराः 'ववहारे पंचविहे पन्नत्ते' इत्यादि सूत्रं निबद्धवन्तस्तस्मिन् काले बाधितरूपेणाऽऽगम आसीदेव ततः कस्मात् कारणात् आज्ञादयो जीतान्ता व्यवहाराः सूत्रे तैर्निबद्धाः, आगमादेव सर्वव्यवहारसंभवात्, न हि सूर्यप्रकाशसत्तायां चाक्षुष्ककार्यसंपादनाय प्रदीपादीनामल्पप्रकाशानां संग्रहो :भवति ! अत्राह-तेऽवधिज्ञानादिना ज्ञातवन्तः, यत् स एतादृशः कालः समागमिष्यति यस्मिन् काले सूत्रमनागतविषयं भविष्यति आगमस्य

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346