Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 291
________________ २५८ व्यवहारस्चे भाष्यम् -'तो' तिस्रः-त्रिप्रकारिकाः 'थेरभूमीओ पन्नत्ताओ' स्थविरभूमयः प्रज्ञप्ताः तत्र-भूमिः स्थानं काल इत्येकार्थः तेनायमर्थः-स्थविरस्य भूमिः-अवस्थारूपः कालः, तास्तिस्रः प्रज्ञप्ताः, ता एवाह–'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'जाइथेरे' जातिस्थविरः, 'सुयथेरे' श्रुतस्थविरः, 'परियायथेरे य' पर्यायस्थविरश्च । तत्रैषां त्रयाणां स्थविराणां व्याख्यानं सूत्रकारः स्वयं करोति-'सहिवासजाए' इत्यादि, 'सद्विवासजाए' षष्टिवर्षजातः-जन्मतः षष्ठिवर्षायुष्कः साधुः 'जाइथेरे' जातिस्थविरः कथ्यते १ 'ठाणसमवायघरे सुयधरे' स्थानसमवायधरः-स्थानाङ्गसमवायाङ्गधरः श्रुतस्थविरः प्रोच्यते २ । 'वीसवासपरियाए परियायथेरे' विंशतिवर्षपर्यायः- विंशतिवर्षदीक्षापर्यायवान् पर्यायस्थविर उच्यते ३ इति । __एषां त्रयाणामपि स्थविराणां सत्कारसम्मानादिपूर्वकं तद्योग्यं वैयावृत्त्यमन्यसाधुभिः कर्त्तव्यम्, तथाहि-यो हि जातिस्थविरः षष्टिवर्षजातः, तस्य स्थविरस्य देश-काल-स्वभावानुमताहारपानीयादितव्यः । उपधिर्यावता संस्तरति तावत्प्रमाणको दातव्यः । तथा-शय्यावसतिरनुकूला दातव्या । संस्तारको मृदुको देयः । तथा क्षेत्रान्तरगमनसमये जातिस्थविरस्योपध्यादिकमन्ये वहन्तीति जातिस्थविरस्य वैयावृत्तिप्रकारः १ । तथा-श्रुतस्थविरस्य श्रतेन तपसा, वृद्धस्य कृतिकर्म-वन्दनादिकं कर्त्तव्यम्, तस्य छन्दतो ऽनुवर्त्तनं कर्त्तव्यम् । एवमागतस्य श्रुतस्थविरस्याऽभ्युत्थानमभिवादनं पादप्रमार्जनादिकं कर्त्तव्यम् । तद्योग्यमाहारादिकमानीय समर्पणीयम् । तदीयगुणानां प्रशंसनं कर्त्तव्यम् । यत्र श्रुतस्थविर उपविष्टो भवेत् तत्र तदपेक्षया नीचैः शय्यायामुपवेष्टव्यम् । तस्याऽऽज्ञा सर्वदा परिपालनीया । एवंप्रकारेण श्रुतस्थविरस्य संमानपूर्वकं वैयावृत्त्यं विधेयमिति श्रुतस्थविरस्य वैयावृत्त्यप्रकारः २ । तथा पर्यायस्थविरस्य अप्रव्राजकस्यापि वाचनामदातुरपि आगच्छतोऽभ्युत्थानादिकं सहर्ष कर्तव्यम् । योग्यमाहारादिकमानीय तस्मै समर्पणीयमिति पर्यायस्थविरस्य वैयावृत्त्यप्रकार इति ॥ सू० १७॥ पूर्व तिस्रः स्थविरभूमयः प्रदर्शिताः, स्थविराणां वैयावृत्यादिकं शैक्ष एव कर्त्तमर्हतौति शैक्षसूत्रमाह-अथवा स्थविरपक्षाः शैक्षा इति स्थविरसूत्रानन्तरं शैक्षसूत्रमाह--'तो' इत्यादि । सूत्रम्--'तो सेहभूमीओ पन्नत्ताओ, तंजहा-सत्तराइंदिया, चाउम्मासिया, छम्मासिया। छम्मासिया य उक्कोसिया, चाउम्मासिया मज्झमिया, सत्तराइंदिया जहन्ना ॥ सू०१८॥ __ छाया-तिस्रः शैक्षभूमयः प्रज्ञप्ताः, तद्यथा-सप्तरात्रिंदिवा, चातुर्मासिकी, पाण्मासिकी। पाण्मासिकी चोत्कृष्ट्रा, चातुर्मासिकी मध्यमा, सप्तरात्रिन्दिवा जघन्या' ॥सू०१८॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346