Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 296
________________ भाष्यम् उ० १० सू० २६-२९ दोक्षापर्यायमाश्रित्य सूत्राध्यापनविधिः २६३ त्रिषु वर्षेषु त्रीणि सूत्राणि उद्देष्टव्यानि येनाऽग्रे स स्थानाङ्ग-समवायाङ्ग-सूत्रोद्देशनयोग्यता प्राप्नुयात्तदर्थम् अग्रिमसूत्रेऽष्टवर्षपर्यायस्य स्थानसमवायोदेशनं प्रतिपादितम् ॥सू०२५॥ अथ--अष्टवर्षपर्यायरूपं चतुर्थसूत्रमाह-'अहवासपरियायस्स' इत्यादि । सूत्रम्अहवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ ठाणसमवाया उद्दिसित्तए ॥ सू० २६॥ छाया-अष्टवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते स्थानसमवायौ उद्देष्टुम् ॥ स्० २६ ॥ भाष्यम्-- 'अहवासपरियायस्स' अष्टवर्षपर्यायस्य, यस्य दीक्षापर्यायोऽष्टवर्षात्मको व्यतीतः नवमे च प्रविष्टस्तस्य तादृशस्य, 'समणस्स णिग्गंथस्स' श्रमणस्य निम्रन्थस्य 'कप्पई' कल्पते 'ठाणसमवाया उदिसित्तए' स्थानसमवायो-स्थानाङ्गं समवायाङ्गं चेति सूत्रद्वयम् उद्देष्टुमध्यापयितुम् । ____ अष्टनवात्मके वर्षद्वये स्थानाङ्गसमवायाङ्गेति सूत्रद्वये उद्दिष्टे सति तस्य व्याख्याप्रज्ञप्त्यङ्गोदेशनयोग्यता स्यात्, अग्रिमसूत्रे दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तेरुद्देशनस्य प्रतिपादितत्वात् ॥सू० २६ ॥ तदेवाह-'दसवास.' इत्यादि । सूत्रम्- दसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ विवाहे नामं अंगे उदिसित्तए ॥ सू० २७ ॥ छाया- दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते विवाहो नामाङ्गमुद्देष्टुम् ॥२७॥ भाष्यम्--'दसवासपरियायस्स' दशवर्षपर्यायस्य, यस्य दीक्षाकालो दशवर्षात्मको व्यतीतस्तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य-निर्ग्रन्थस्य 'कप्पई' कल्पते, 'विवाहे नामं अंगं उद्दिसित्तए' विवाहनामकमङ्गं-व्याख्याप्रज्ञप्तिसूत्र-भगवतीसूत्रापरपर्यायं सूत्रम् उद्देष्टुमध्यापयितुम् । त्रिवर्षपर्यायादारभ्य दशवर्षपर्यायपर्यन्तानां पञ्चानां सूत्राणामयं भावः-त्रिवर्षपर्यायस्याऽऽचारप्रकल्पाध्ययनोदेशेन स साध्वाचारस्य सम्यक् परिपालनसमर्थो भवति तत्र साध्वाचारस्य प्रतिपादितत्वात्।।सू० २३॥ चतुर्वर्षपर्यायस्य सूत्रकृताङ्गोद्देशनमनुज्ञातम् , यतश्चतुर्वर्षपर्यायो धर्मे दृढमतिर्भवेत् हीनपर्यायो मतिभेदेन मिथ्यात्वं प्राप्नुयात् , सूत्रकृताङ्गे च त्रिषष्टयधिकानां त्रयाणां पाखण्डिशतानां दृष्टयः प्ररूपिताः, तदध्ययनेन स कुसमयै पहियते ॥ सू० २४ ॥ पञ्चवर्षपर्यायोऽपवादज्ञानयोग्यो भवतीति कृत्वा तस्य दशाश्रुतस्कन्ध-वृहत्कल्प-व्यवहाराध्यापनमनुज्ञातम् ॥ सू०२५॥ एषां त्रयाणां सूत्राणामध्ययनं पञ्चषट्-सप्तेति वर्षत्रयं यावत् करोति ततः स विकृष्टपर्यायो

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346