Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
२६६
व्यवहारसूत्रे __चतुर्दशवर्षपर्यायमधिकृत्याह-..'चउद्दसवासपरियायस्स समणस्स' इत्यादि ।
सूत्रम्- चउद्दसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ सुमिणभावणा णाम अज्झयणं उद्दिसित्तए ॥ सू० ३१॥
__ छाया-चतुर्दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते स्वप्नभावना नामाध्य. यनमुद्देष्टुम् ॥ सू० ३१ ॥
- भाष्यम्-'चउद्दसवासपरियायस्स' चतुर्दशवर्षदीक्षापर्यायस्य-यस्य श्रमणस्य दीक्षापर्यायो-दीक्षाग्रहणकालः चतुर्दशवर्षात्मको व्यतीतः तादृशस्य, 'समणस्स णिग्गंथस्स' श्रमणस्य निम्रन्थस्य 'कप्पई' कल्पते 'सुमिणभावणा णाम अज्झयणं' स्वप्नभावनामाध्ययनम् , । यस्मिन्नध्ययने सामान्यतः त्रिशत्स्वप्नाः विशेषतो द्वा चत्वारिंशत् स्वप्नाः प्रतिपादिताः, कीदृशस्य स्वप्नस्य कीदृशं शुभमशुभं वा फलं भवति, एतत्प्रतिपादकमध्ययनं स्वप्नभावनाध्ययनम् इति कथ्यते । तादृशं स्वप्नभावनानामकमध्ययनम् 'उद्दिसित्तए' उद्देष्टुमध्यापयितुं कल्पते इति ।
अयं भावः- यदा खलु मनो निद्रावस्थायां हृदयेऽवस्थितं भवति तदा दृष्टश्रुतान् अर्थान् पश्यति स स्वप्नः कारणभेदात् त्रिप्रकारको भवति, रोगबलात् वासनाबलात् , अदृष्टबलाच्च । तत्र-रोगस्त्रिविधः पैत्तिको वातिकः प्लैष्मिकश्च । तत्र-ज्वरादिरोगाक्रान्तः स्वप्नेऽग्निदाहादिकं पश्यति । वातरोमाक्रान्तो रात्रौ--आकाशगमनादिकं पश्यति, श्लैष्मिकरोगपीडितस्तु जलसंतरणादिकं पश्यति, सोऽयं स्वप्नो रोगजनितः कथ्यते । वासनाजनितस्तु स यो वासनया समुत्पद्यते, तत्र-वासनादिवसे दृष्टस्य श्रुतस्य वा विषयजातस्य संस्कारवशाद् रात्रौ शयानः तमेव पदार्थजातं पश्यति यः स तादृशः । इमौ द्वावपि स्वप्नौ न फलदायको भवतो वासनाजनितः स्वप्नः कथ्यते ।
तृतीयस्तु -अदृष्टजनितः--भाग्यजनितः स शुभमशुभं वा फलं ददाति । तत्राऽदृष्टजनिताः सामान्यतस्त्रिंशत् स्वप्नाः विशेषतो द्वाचत्वारिंशत् स्वप्नाः, सङ्कलनया द्वासप्ततिसंख्यका भवन्ति । तदुक्तममुकस्वप्नस्य फलम् -
"यदा कर्मसु काम्येषु, स्त्रियं पश्यति पुरुषः ।
अरिष्टं तत्र जानीयात् , तस्मिन्स्वप्ननिदर्शने ॥ १॥ ___ इत्यादिना शुभाशुभफलसूचकत्वं स्वप्नस्य दर्शितम् । स्वप्ने खररोहणादीनि जघन्यानि वस्तूनि पश्यन्ति, तेन 'अशुभफलसूचनं भवति । विशेषतस्तु-स्वप्नाध्यायादेव द्रष्टव्यम् ॥ सू० ३१ ॥
पञ्चदशवर्षपर्यायमधिकृत्याऽऽह--‘पन्नरसवासपरियायस्स' इत्यादि ।
सूत्रम् - पन्नरसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ चारणभावणा णाम अज्झयणं उद्दिसित्तए ॥ सू० ३२॥
Loading... Page Navigation 1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346