Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 304
________________ भाष्यम् उ० १० सू० ३९-४८ दशविधवैयावृत्त्यफल निरूणम् २७१ छाया - भक्तं पानं शय्या, आसनदानं तथैव प्रतिलेखा । पादप्रमार्जन मौषधः, अध्वगमने च राजद्विष्टे च ॥ १ ॥ स्तेनात् पात्रग्रहणं; ग्लाने पात्रढौकनं चैव । एवमाचार्याणां वैयावृत्यं करोति मोक्षार्थी ॥ २ ॥ " अयं भावः - भक्तं पानं च यथासमयं दीयते इति २, 'सेज्जा' शय्या संस्तारकं क्रियते ३, समीपागमनेऽभ्युत्थानपूर्वक मासनदानम् ४, एवमेव तेषां क्षेत्रवस्त्रपात्रादीनां प्रतिलेखनाकर - णम् ५, बहिः प्रदेशादागतानां पादप्रमार्जनकरणम् ६, ग्लानत्वे औषधभैषज्यादिना परिचर - णम् ७, अध्वगमने - मार्गगमने तेषामुपधेर्वहनम् विश्रामणयोपष्टम्भनं च ८, राजद्विष्टे - राज्ञि द्विष्टे सति तत्कृतोपद्रवान्निस्तारणम् ९, 'तेणा' स्तेनात् शरीरोपधेः स्तेनाद्रक्षणम् १०, पत्तग्गहणं विचारभूमित आगतानां पात्रादीनां स्वहस्ते धारणम् ११, ग्लाने यद् योग्यं पथ्यादि तदानीय समर्पणम् १२, 'पत्तढोयणं' पात्रढौकनम् - - उच्चार - प्रस्रवण- खेल - सम्बन्धिपात्रत्रिकस्य तदग्रे स्थापनम् १३ । एवं त्रयोदशभिः प्रकारैराचार्याणां वैयावृत्यं यो मोक्षार्थी श्रमणः स करोति तस्य मोक्षप्राप्तिहेतुकत्वात् इति गाथाद्वयार्थः ॥२॥ एवं त्रयोदशप्रकारैर्वैयावृत्त्यम् 'करेमाणे' कुर्वन् निर्जराभावेन संपादयन् 'समणे णिग्गंथे' श्रमणो निर्ग्रन्थः 'महानिज्जरे' महानिर्जरः महती निर्जरा - कर्मशातनारूपा यस्य स महानिर्जरः, आचार्यस्य वैयावृत्त्यक्रियायामायुक्तः श्रमणोऽनुसमयं कर्मकोटिं क्षपयति । यतः कर्मकोटिक्षपकस्ततोऽयम् 'महापज्जवसाणे भाइ' महापर्यवसानो भवति, तत्र महत् पुनरबन्धकत्वेन पर्यवसानं ज्ञानावरणीयाद्यष्टविधकर्मणां परि-समन्तादात्मप्रदेशाद् अवसानम् अन्तो जातो यस्य स महापर्यव सानः सर्वकर्मक्षयकरो भवति जायते स तद्भवे एव मोक्षगामी भवतीति भावः ॥ सू० ३९ ॥ पूर्वमाचार्यवैयावृत्त्यस्य फलमुक्तम्, एवमेव शेषाणामुपाध्यायादीनामपि वैयावृत्त्यकरणे एतदेव फलं भवतीति उपाध्यायादीनां नवानां वैयावृत्यफलं प्रदर्शयन् नवसूत्रीमाह-उवज्झाय ० ' इत्यादि । सूत्रम् — उवज्झायवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ ॥ सू० ४० ॥ थेरवेयावच्च करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ सू०४१ तवस्सि वेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ ४२ छाया - उपाध्यायवैयावृत्यं कुर्वाणः श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू० ४० ॥ स्थविरवैयावृत्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू०४१ तपस्वि वैयावृत्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू० ४२

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346