________________
भाष्यम् उ० १० सू० ३९-४८
दशविधवैयावृत्त्यफल निरूणम् २७१
छाया - भक्तं पानं शय्या, आसनदानं तथैव प्रतिलेखा । पादप्रमार्जन मौषधः, अध्वगमने च राजद्विष्टे च ॥ १ ॥ स्तेनात् पात्रग्रहणं; ग्लाने पात्रढौकनं चैव । एवमाचार्याणां वैयावृत्यं करोति मोक्षार्थी ॥ २ ॥
"
अयं भावः - भक्तं पानं च यथासमयं दीयते इति २, 'सेज्जा' शय्या संस्तारकं क्रियते ३, समीपागमनेऽभ्युत्थानपूर्वक मासनदानम् ४, एवमेव तेषां क्षेत्रवस्त्रपात्रादीनां प्रतिलेखनाकर - णम् ५, बहिः प्रदेशादागतानां पादप्रमार्जनकरणम् ६, ग्लानत्वे औषधभैषज्यादिना परिचर - णम् ७, अध्वगमने - मार्गगमने तेषामुपधेर्वहनम् विश्रामणयोपष्टम्भनं च ८, राजद्विष्टे - राज्ञि द्विष्टे सति तत्कृतोपद्रवान्निस्तारणम् ९, 'तेणा' स्तेनात् शरीरोपधेः स्तेनाद्रक्षणम् १०, पत्तग्गहणं विचारभूमित आगतानां पात्रादीनां स्वहस्ते धारणम् ११, ग्लाने यद् योग्यं पथ्यादि तदानीय समर्पणम् १२, 'पत्तढोयणं' पात्रढौकनम् - - उच्चार - प्रस्रवण- खेल - सम्बन्धिपात्रत्रिकस्य तदग्रे स्थापनम् १३ । एवं त्रयोदशभिः प्रकारैराचार्याणां वैयावृत्यं यो मोक्षार्थी श्रमणः स करोति तस्य मोक्षप्राप्तिहेतुकत्वात् इति गाथाद्वयार्थः ॥२॥
एवं त्रयोदशप्रकारैर्वैयावृत्त्यम् 'करेमाणे' कुर्वन् निर्जराभावेन संपादयन् 'समणे णिग्गंथे' श्रमणो निर्ग्रन्थः 'महानिज्जरे' महानिर्जरः महती निर्जरा - कर्मशातनारूपा यस्य स महानिर्जरः, आचार्यस्य वैयावृत्त्यक्रियायामायुक्तः श्रमणोऽनुसमयं कर्मकोटिं क्षपयति । यतः कर्मकोटिक्षपकस्ततोऽयम् 'महापज्जवसाणे भाइ' महापर्यवसानो भवति, तत्र महत् पुनरबन्धकत्वेन पर्यवसानं ज्ञानावरणीयाद्यष्टविधकर्मणां परि-समन्तादात्मप्रदेशाद् अवसानम् अन्तो जातो यस्य स महापर्यव सानः सर्वकर्मक्षयकरो भवति जायते स तद्भवे एव मोक्षगामी भवतीति भावः ॥ सू० ३९ ॥
पूर्वमाचार्यवैयावृत्त्यस्य फलमुक्तम्, एवमेव शेषाणामुपाध्यायादीनामपि वैयावृत्त्यकरणे एतदेव फलं भवतीति उपाध्यायादीनां नवानां वैयावृत्यफलं प्रदर्शयन् नवसूत्रीमाह-उवज्झाय ० ' इत्यादि ।
सूत्रम् — उवज्झायवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे
भवइ ॥ सू० ४० ॥
थेरवेयावच्च करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ सू०४१ तवस्सि वेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ ४२ छाया - उपाध्यायवैयावृत्यं कुर्वाणः श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो
भवति ॥ सू० ४० ॥
स्थविरवैयावृत्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू०४१ तपस्वि वैयावृत्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू० ४२