________________
२७०
व्यवहारसूत्र 'सेहवेयावच्चे' शैक्षवैयावृत्त्यम् , तत्र शैक्षः शिक्ष्यते शास्त्रदर्शितविधिर्ज्ञायते व्रतातिचारादियस्य सः शैक्षः शिक्षयितुं योग्यः शैक्षः, यद्वा ग्रहणासेवनशिक्षायोग्यः शैक्षस्तस्य वैयावृत्यम् समये समये तस्य वैयावृत्त्यं ग्रहणासेवनीशिक्षाप्रदानरूपं पञ्चमं वैयावृत्त्यम् ५ ।
'गिलाणवेयावच्चे' ग्लानवैयावृत्त्यम् तत्र-ग्लानो रोगतपोभेदेन द्विविधः, रोगेण ग्लानस्तपसा वा ग्लानस्तस्य वैयावृत्त्यम् औषधान्नपानादिभिरभिभावनमिति षष्ठं वैयावृत्त्यम् ६ ।
'साहम्मियवेयावच्चे' साधर्मिकवैयावृत्त्यम् , तत्र समान एको धर्मः श्रुतचारित्रलक्षणो येषां ते साधर्मिकाः समानधर्माचरणशीलाः साधवस्तेषां वैयावृत्यं सप्तमं वैयावृत्त्यम् ७ ।
'कुलवेयावच्चे' कुलवैयावृत्त्यम् तत्र कुलम् एकगुरुपरिवाररूपः साधुसमुदायस्तस्य वैयावृत्त्यम् अष्टमं वैयावृत्त्यम् ८ ।
___ 'गणवेयावच्चे' गणवैयावृत्यम् , गणस्य एकगुरुपरम्परागत साधुसमुदायस्य वैयावृ. स्यं नवमं वैयावृत्यम् ९।
'संघवेयावच्चे' सङ्घवैयावृत्त्यम्, तत्र संघस्य साधुसाध्वीरूपस्य भक्तपानवस्त्रपात्रादिना, चतुर्विधसंघस्य वा परतीर्थिकविवादनिवारणादिना सदुपदेशादिना च वैयावृत्त्यम् दशमं वैयावृत्त्यम् १० । एतद्दशविधं वैयावृत्यं भगवता प्ररूपितमिति ॥ सू० ३८ ॥
पूर्व दशविधं वैयावृत्त्यं नामनिर्देशपूर्वकं प्रदर्शितम् , साम्प्रतं सर्वेषां मुख्यत्वेन प्रथममाचार्यवैयावृत्त्यस्य फलं प्रदर्शयति-'आयरियवेयावच्चं' इत्यादि।
सूत्रम्-आयरियबेयावच्चं करेमाणे समणे णिगंथे महानिज्जरे महापज्जवसाणे भवइ ॥ सू० ३९ ॥
छाया-आचार्यवैयावृत्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू० ३९॥
'आयरियवेयावच्चे' आचार्यवैयावृत्त्यम् , तत्राचार्यस्य गणनायकस्य वैयावृत्त्य, तच्च त्रयोदशभिः प्रकारैः क्रियते, अत्र गाथाद्वयमाह - भत्तं पाणं च' इत्यादि ।
"भत्तं १ पाणं २ च सेज्जा ३, आसणदाणं ४ तहेव पडिलेहा ५ । पायपमज्जण ६ ओसह ७, अद्धागमणे ८ य रायदुट्टे य ९ ॥१॥ तेणा १० पत्तग्गहणं ११, गेलन्ने १२ पत्तढोयणं १३ चेव । एवं आयरियाण, वेयावचं करेइ मोक्खट्टी" ॥२॥