________________
भाष्यम् उ० १० सू० ३८
दशविधवैयावृत्त्यनिरूपणम् २६९ सूत्रम्-वीसइवासपरियाए समणे णिग्गंथे सव्वसुयाणुवाई भवइ ॥ सू० ३७ ॥ छाया-विंशतिवर्षपर्यायः श्रमणो निर्ग्रन्थः सर्वश्रुतानुपाती भवति ॥ सू० ३७।
भाष्यम-वीसइवासपरियाए' विंशतिवर्षपर्यायः, यस्य दीक्षापर्यायो विंशतिवर्षप्रमाणको जातस्तादृशः, 'समणे णिग्गंथे' श्रमणो निर्ग्रन्थः 'सव्वसुयाणुवाई भवई' सर्व श्रुतानुपाती भवति, स आचाराङ्गादिद्वादशाङ्गगणिपिटकधारको जायते ।
अयं भावः-अत्राचाराङ्गादिदृष्टिवादपर्यन्तानां योग्यताक्रमेणोद्देशनविधिः प्रदर्शितस्तेन पात्रस्यैव यथोचिते काले तत्तद्योग्यतां विचार्य यस्य यदुचितमङ्गं ज्ञायते तत्तस्य दातव्यं भवेत् न त्वन्यत् । अपात्रे दाने महती श्रुताशातना जायते ॥ सू० ३७॥
पूर्व श्रुताध्ययनयोग्यता प्रदर्शिता, सा च कर्मलाघवेन समुपलभ्यते, कर्मलाघवं चाचार्यादीनां वैयावृत्त्येन जायते, इति साम्प्रतं दशविधवैयावृत्यं तत्फलं च प्रदर्शयति-'दसविहे वेयाबच्चे' इत्यादि ।
सूत्रम्-दसविहे वेयावच्चे पण्णत्ते तंजहा-आयरियवेयावच्चे १, उवज्झायवेयावच्चे २, थेरवेयावच्चे ३, तवस्सिवेयावच्चे ४, सेहवेयावच्चे ५ गिलाणवेयावच्चे ६ साहम्मियवेयावच्चे ७ कुलवेयावच्चे ८ गणवेयावच्चे ९ संघवेयावच्चे १० ॥३८॥
छाया-दशविधं वैयावृत्यं प्रक्षप्तम् , तद्यथा-आचार्यवैयावृत्त्यम् १, उपाध्याय वैयावृत्त्यम् २, स्थविरवैयावृत्त्यम् ३, तपस्विवैयावृत्त्यम् ४, शैक्षवेयावृत्त्यम् ५, ग्लानवैयावृत्त्यम् ६, साधर्मिकवैयावृत्त्यम् ७, कुलवैयावृत्त्यम् ८, गणवैयावृत्त्यम् ९, सवैया. वृत्त्यम् ॥ सू० ३८॥
___ भाष्यम् -'दसविहे वेयावच्चे पन्नत्ते' दशविधं दशप्रकारकं वैयावृत्त्यं प्रज्ञतं कथितम् । तानेव दश भेदान् दर्शयितुमाह-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'आयरियवेयावच्चे' आचार्यवैयावृत्त्यम् , तत्राचार्थस्य गणनायकस्य वैयावृत्त्यं भक्तपानादिना तस्य सेवाकरणमिति प्रथमं वैयावृत्त्यम् १।
'उवज्झायवेयावच्चे' उपाध्यायवैयावृत्त्यम् , तत्रोपाध्यायस्य यस्य-उप-समीपे आगत्याधीयते सूत्रार्थतदुभयमिति स उपाध्यायस्तस्य वैयावृत्त्यमिति द्वितीयं वैयावृत्त्यम् २ ।
'थेरवेयावच्चे' स्थविरवैयावृत्त्यम् स्थविरस्य श्रुतपर्यायावस्थाभेदेन त्रिविधस्य स्थविरस्य वैयावृत्त्यं तृतीयं वैयावृत्यम् ३ ।
'तवस्सिवेयावच्चे' तपस्विवैयावृत्त्यम् , तत्र तपो बाह्याभ्यन्तरभेदेन द्विविधं, तत्करोति यः स तपस्वी, तस्य तपस्विनो वैयावृत्त्यं चतुर्थे वैयावृत्त्यम् ४ ।