Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 303
________________ २७० व्यवहारसूत्र 'सेहवेयावच्चे' शैक्षवैयावृत्त्यम् , तत्र शैक्षः शिक्ष्यते शास्त्रदर्शितविधिर्ज्ञायते व्रतातिचारादियस्य सः शैक्षः शिक्षयितुं योग्यः शैक्षः, यद्वा ग्रहणासेवनशिक्षायोग्यः शैक्षस्तस्य वैयावृत्यम् समये समये तस्य वैयावृत्त्यं ग्रहणासेवनीशिक्षाप्रदानरूपं पञ्चमं वैयावृत्त्यम् ५ । 'गिलाणवेयावच्चे' ग्लानवैयावृत्त्यम् तत्र-ग्लानो रोगतपोभेदेन द्विविधः, रोगेण ग्लानस्तपसा वा ग्लानस्तस्य वैयावृत्त्यम् औषधान्नपानादिभिरभिभावनमिति षष्ठं वैयावृत्त्यम् ६ । 'साहम्मियवेयावच्चे' साधर्मिकवैयावृत्त्यम् , तत्र समान एको धर्मः श्रुतचारित्रलक्षणो येषां ते साधर्मिकाः समानधर्माचरणशीलाः साधवस्तेषां वैयावृत्यं सप्तमं वैयावृत्त्यम् ७ । 'कुलवेयावच्चे' कुलवैयावृत्त्यम् तत्र कुलम् एकगुरुपरिवाररूपः साधुसमुदायस्तस्य वैयावृत्त्यम् अष्टमं वैयावृत्त्यम् ८ । ___ 'गणवेयावच्चे' गणवैयावृत्यम् , गणस्य एकगुरुपरम्परागत साधुसमुदायस्य वैयावृ. स्यं नवमं वैयावृत्यम् ९। 'संघवेयावच्चे' सङ्घवैयावृत्त्यम्, तत्र संघस्य साधुसाध्वीरूपस्य भक्तपानवस्त्रपात्रादिना, चतुर्विधसंघस्य वा परतीर्थिकविवादनिवारणादिना सदुपदेशादिना च वैयावृत्त्यम् दशमं वैयावृत्त्यम् १० । एतद्दशविधं वैयावृत्यं भगवता प्ररूपितमिति ॥ सू० ३८ ॥ पूर्व दशविधं वैयावृत्त्यं नामनिर्देशपूर्वकं प्रदर्शितम् , साम्प्रतं सर्वेषां मुख्यत्वेन प्रथममाचार्यवैयावृत्त्यस्य फलं प्रदर्शयति-'आयरियवेयावच्चं' इत्यादि। सूत्रम्-आयरियबेयावच्चं करेमाणे समणे णिगंथे महानिज्जरे महापज्जवसाणे भवइ ॥ सू० ३९ ॥ छाया-आचार्यवैयावृत्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू० ३९॥ 'आयरियवेयावच्चे' आचार्यवैयावृत्त्यम् , तत्राचार्यस्य गणनायकस्य वैयावृत्त्य, तच्च त्रयोदशभिः प्रकारैः क्रियते, अत्र गाथाद्वयमाह - भत्तं पाणं च' इत्यादि । "भत्तं १ पाणं २ च सेज्जा ३, आसणदाणं ४ तहेव पडिलेहा ५ । पायपमज्जण ६ ओसह ७, अद्धागमणे ८ य रायदुट्टे य ९ ॥१॥ तेणा १० पत्तग्गहणं ११, गेलन्ने १२ पत्तढोयणं १३ चेव । एवं आयरियाण, वेयावचं करेइ मोक्खट्टी" ॥२॥

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346