Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 301
________________ व्यवहार २६८ समुत्पद्यते । अथवा यैराचरणैराशीविषत्वेन कर्म बध्यते तेषामाचरणानामुपवर्णनमत्राशीविषभावनाध्ययने समुपलभ्यते । एष एवास्त्यतिशयः ।। सू० ३४ ॥ अष्टादशवर्षपर्यायमाश्रित्याऽऽह – 'अट्ठारसवासपरियायस्स' इत्यादि । सूत्रम् - 'अट्ठारसवासपरियायस्स समणस्स णिग्गंथस्स कप्पर दिििवसभावणाणाम अज्झयणं उद्दित्तिए । सू० २५ ॥ छाया - अष्टादशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते दृष्टिविषभावनामाध्य. यन मुद्देष्टुम् ॥ सू० ३५ ॥ भाष्यम् – 'अट्ठारसवासपरियायस्स' अष्टादशवर्षपर्यायस्य यस्य दीक्षाकालोऽष्टादशवर्षात्को व्यतीतः सोऽष्टादशवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप' कल्पते, 'दिडिविसभावणा णामं अज्झयणं' दृष्टिविषभावना नामाऽध्ययनम् 'उद्दि - सित्तए' उेष्टुम् । अस्याध्ययनस्याध्येतुर्दृष्टिविषनाम्नी लब्धिः प्रादुर्भवति, तत्प्रभावादस्य श्रमणस्य दृष्ट्या विषमुपशाम्यति । अथवा यैः समाचरणैर्मनुष्यों दृष्टिविषतया कर्म वध्नातीत्यत्र तद्वर्णनमुपलभ्यते ॥ सू० ३५ ॥ अथैकोनविंशतिवर्षपर्यायसूत्रमाह-- ' एगूणवीसवासपरियायस्स' इत्यादि । सूत्रम् -- एगूणवीसवासपरियायस्स समणस्स णिग्गंथस्स कप्पर दिट्ठिवायं नामे अंगे उद्दिसित्तए | सू० ३६ ॥ छाया--- एकोनविंशतिवर्षपर्यायस्य भ्रमणस्य निर्ग्रन्थस्य कल्पते दृष्टिवादं नामाङ्गमुद्देष्टुम् ॥ सू० ३६ ॥ - एकोनविंशतिवर्षपर्यायस्य भाष्यम् – ' एगूणवीसवासपरियायस्स' यस्य साधोः दीक्षा पर्याय एकोनविंशतिवर्षप्रमाणो व्यतीतो भवेत् स एकोनविंशतिवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पड़' कल्पते 'दिट्टिवायं नामे अंगे उद्दिसित्तए' दृष्टिवादं नामाङ्गं दृष्टिवादाख्यं द्वादशमङ्गम् उद्देष्टुम् अध्यापयितुम् । यो हि श्रमण एकोनविंशति वर्षप्रमाणक दीक्षा पर्यायः स दृष्टिवादनाम कमङ्गमध्येतुं शक्नोति एतावद्वर्षदीक्षापर्यायस्यैव दृष्टिवा - दाध्ययनयोग्यताया भगवता प्रतिपादितत्वात् ॥ सू० ३६ ॥ पूर्व दृष्टिवादाङ्गपर्यन्तश्रुतानामुद्देशनयोग्यता प्रदर्शिता, ततः परं श्रमणः कीदृशीं योग्यतां प्राप्नोतीति प्रदर्शयन्नाह - 'वीसइवासपरियाए ' इत्यादि ।

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346