Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 300
________________ भाग्यम् उ० १० सू० ३२-३७ दीक्षापर्याक्रमेण सूत्राध्यापन विधिः २६७ छाया -- पञ्चदशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते चारणभावना नामाध्ययन मुद्देष्टुम् ॥ सू० ३२ ॥ भाष्यम् – 'पन्न रसवासपरियायस्स' पञ्चदशवर्षपर्यायस्य यस्य पञ्चदशवर्षात्मको दीक्षाकालो व्यतीतस्तादृशस्य, 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य ' कप्पइ' कल्पते, 'चारणभावणा नाम अज्झयणं' चारणभावनानामकमध्ययनम् 'उद्दिसित्तए' उद्देष्टुमध्यापयितुं कल्पते । पञ्चदशवर्षपर्यायस्य साधोः चारणभावनानामकमध्ययनम् अध्यापयितुं कल्पते । अस्यायमतिशयः- चारणभावनानामकाऽध्ययनाध्येतुश्चारणलब्धिरुत्पद्यते, अथवा येन तपोविशेषेण कृतेन जङ्घाचारण- विद्याचारण- लब्धिर्जायते इति तत्रैव वर्णनमुपलभ्यते ॥ सु० ३२ ॥ षोडशवर्ष पर्यायमाश्रित्याह - 'सोलसवासपरियायस्स' इत्यादि । सूत्रम् - सोलसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ तेयनिसग्गे नाम अझयणे उद्दित्तिए' || सू० ३३ ॥ छाया - षोडशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते तेजोनिसर्गे नामाध्ययनमुद्देष्टुम् ॥ सू० ३३ ॥ भाष्यम् – 'सोलसवासपरियायस्त' षोडशवर्षपर्यायस्य यस्य साधोदक्षाकालः षोडशवर्षात्को व्यतीतः स षोडशवर्षपर्यायस्तस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पड़' कल्पते तेयनिसग्गे नामं अज्झयणे' तेजोनिसर्गो नामकमध्ययनम् ' उद्दित्तिए ' उद्देष्टुम् - अध्यापयितुम् । तेजोनिसर्गाऽध्ययनाध्येतुस्तेजोनिःसरणं भवति - तेजसो निस्सरणं प्रादुर्भावो जायते, अयमेवातिशयः ॥ सू० ३३ ॥ सप्तदशपर्यायमधिकृत्याऽऽह - 'सत्तरसवासपरिया यस्स' इत्यादि । सूत्रम् -- सत्तरसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ आसीविसभावणा नाम अज्झयणे उद्दिसित्तए ॥ सु० ३४ ॥ छाया - सप्तदशवर्षपर्यायस्य श्रमणस्य नित्थस्य कल्पते आशीविषभावना नामाऽध्ययनमुद्देष्टुम् ॥ ३४ ॥ भाष्यम् – 'सत्तरसवासपरियायस्स' सप्तदशवर्षपर्यायस्य यस्य दीक्षाकालः सप्तदशवर्षात्मको व्यतीतः सः सप्तदशवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पर' कल्पते 'आसी विसभावणा नाम अज्झयणं' आशीविषभावनानामकमध्ययनम् 'उद्दिसित्तए' उद्देष्टुम् - - अध्यापयितुं कल्पते, आशीविषभावनाऽध्ययनपाठकस्य आशीविषलब्धिः

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346