Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 298
________________ भाष्यम् उ० १० सू० ३०-३१ दीक्षापर्याक्रमेण सूत्राध्यापनविधिः २६५ एतन्नामक मध्ययनम् । 'वेसमणोववाए' वैश्रमणोपपातः - एतन्नामकोऽध्ययनविशेषः । तथा'वेलंधरोaare नाम अज्झयणं' वेलंधरोपपातो नामाध्ययनम् 'उद्दिसित्तए' उद्देष्टुं वाचयितुमध्यापयितुमित्यर्थः । एतेषामरुणोपपातादिनामाऽध्ययनानामधिष्ठातारस्तत्तदध्ययनसदृशनामानोऽरुणादयो देवाः सन्ति तानरुणादिदेवान् हृदये संप्रधार्य ये श्रमणा यदा अरुणोपपातादिकानि अध्ययनानि परावर्त्तन्ते तदा तेषामन्तिके स्वकीयस्वकीयाऽध्ययनपरावर्त्तनाऽनुगृहीतास्ते देवा अञ्जलिमुकुलितहस्ता दशाऽपि दिश उद्योतयन्तः प्रादुर्भवन्ति, प्रादुर्भूय च किङ्करभूताः सन्तोऽध्ययनपरावर्त्तकान् पर्युपासते, वेलन्धरा धरणा वरुणाश्च देवाः वेलन्धरोपपातादिपाठकानामन्तिके गन्धोदकादि वर्षा वर्षान्ति, तथा - अरुणा गरुडा वैश्रमणाश्च देवा अरुणोपपातादिकाssध्ययनपरावर्त्तनेनाssवर्जिताः सन्तः तत्तदन्तिकमुपागत्य सुवर्णरजतादीनां वृष्टि कुर्वाणा दासवद् उपासते ब्रुवते च श्रमणा ! आदिशत किं कुर्मो वयमिति ॥ सू० २९ ॥ अथ - - त्रयोदशवर्षपर्यायमधिकृत्याह -- ' तेरसवासपरियायस्स' इत्यादि । सूत्रम् - तेरसवासपरिया यस्स समणस्स णिग्गंथस्स कप्पर उट्ठाणसुए समुट्ठाree देविंदोaare णागपरियावणिया नामं अज्झयणं उद्दित्तिए | सू० ३० ॥ छाया - त्रयोदशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते, उत्थानश्रुतं समुत्थानश्रुतं देवेन्द्रोपपातो नागपर्यापनिका नामाध्ययनमुद्देष्टुम् ॥ सू० ३० ॥ भाष्यम् – 'तेरसवासपरियायस्स' त्रयोदशवर्षपर्यायस्य यस्य दीक्षापर्यायस्त्रयोदशवर्षोत्मकः कालो व्यतीतस्तादृशस्य, 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य ' कप्पड़' कल्पते, 'उद्वाणसु' उत्थानश्रुतम् एतन्नामकमध्ययनम् । तथा - 'समुत्थानसुए' समुत्थानश्रुतम् - एतन्नामकमध्ययनम् । तथा 'देविंदो वाए' देवेन्द्रोपपातः - देवेन्द्रोपपातकनामकमध्ययनम् । 'नागपरि - यावणिया नाम अज्झयणं' नागपर्यापनिकानामकमध्ययनम् ' उद्दिसित्तए' उद्देष्टुम्, त्रयोदशवर्षपय यस्य श्रमणस्य उत्थानश्रुत। दिनामकानि - अध्ययनानि अध्यापयितुं कल्पते ॥ एतेषामध्ययनानामयमतिशयः - त्रयोदशवर्षपर्यायः श्रमणो निर्ग्रन्थो यत्र स्थानविशेषे सुचे - तसा मनःप्रणिधानपूर्वकम् उत्थानश्रुतं परावर्त्तयति तत्रैव स्थानविशेषे कुलग्रामदेशा उत्तिष्ठन्ति उद्वशीभवन्ति, तदनन्तरं कार्ये निष्पन्ने सति समुत्थानश्रुते परावर्त्त्यमाने पुनरपि ते कुलग्रामदेशा स्वस्थीभूय निवसन्ति । एवमुपर्युक्तप्रकारेण स्वनामसदृशदेवेन्द्रोपपात इति देवेन्द्रपर्यापनिका - नागपर्यापनिकाऽध्ययनात् देवेन्द्रा नागदेवाश्च स्वस्वाध्ययनाध्येतॄणां समीपे समागच्छन्ति, समागत्य च किङ्करवत् तान् पर्युपासते, एष एवातिशय उत्थानादिश्रुतानाम् || सू० ३० ॥ न्य. ३४

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346