________________
भाष्यम् उ० १० सू० ३०-३१
दीक्षापर्याक्रमेण सूत्राध्यापनविधिः २६५
एतन्नामक मध्ययनम् । 'वेसमणोववाए' वैश्रमणोपपातः - एतन्नामकोऽध्ययनविशेषः । तथा'वेलंधरोaare नाम अज्झयणं' वेलंधरोपपातो नामाध्ययनम् 'उद्दिसित्तए' उद्देष्टुं वाचयितुमध्यापयितुमित्यर्थः ।
एतेषामरुणोपपातादिनामाऽध्ययनानामधिष्ठातारस्तत्तदध्ययनसदृशनामानोऽरुणादयो देवाः सन्ति तानरुणादिदेवान् हृदये संप्रधार्य ये श्रमणा यदा अरुणोपपातादिकानि अध्ययनानि परावर्त्तन्ते तदा तेषामन्तिके स्वकीयस्वकीयाऽध्ययनपरावर्त्तनाऽनुगृहीतास्ते देवा अञ्जलिमुकुलितहस्ता दशाऽपि दिश उद्योतयन्तः प्रादुर्भवन्ति, प्रादुर्भूय च किङ्करभूताः सन्तोऽध्ययनपरावर्त्तकान् पर्युपासते, वेलन्धरा धरणा वरुणाश्च देवाः वेलन्धरोपपातादिपाठकानामन्तिके गन्धोदकादि वर्षा वर्षान्ति, तथा - अरुणा गरुडा वैश्रमणाश्च देवा अरुणोपपातादिकाssध्ययनपरावर्त्तनेनाssवर्जिताः सन्तः तत्तदन्तिकमुपागत्य सुवर्णरजतादीनां वृष्टि कुर्वाणा दासवद् उपासते ब्रुवते च श्रमणा ! आदिशत किं कुर्मो वयमिति ॥ सू० २९ ॥
अथ -
- त्रयोदशवर्षपर्यायमधिकृत्याह -- ' तेरसवासपरियायस्स' इत्यादि ।
सूत्रम् - तेरसवासपरिया यस्स समणस्स णिग्गंथस्स कप्पर उट्ठाणसुए समुट्ठाree देविंदोaare णागपरियावणिया नामं अज्झयणं उद्दित्तिए | सू० ३० ॥
छाया - त्रयोदशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते, उत्थानश्रुतं समुत्थानश्रुतं देवेन्द्रोपपातो नागपर्यापनिका नामाध्ययनमुद्देष्टुम् ॥ सू० ३० ॥
भाष्यम् – 'तेरसवासपरियायस्स' त्रयोदशवर्षपर्यायस्य यस्य दीक्षापर्यायस्त्रयोदशवर्षोत्मकः कालो व्यतीतस्तादृशस्य, 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य ' कप्पड़' कल्पते, 'उद्वाणसु' उत्थानश्रुतम् एतन्नामकमध्ययनम् । तथा - 'समुत्थानसुए' समुत्थानश्रुतम् - एतन्नामकमध्ययनम् । तथा 'देविंदो वाए' देवेन्द्रोपपातः - देवेन्द्रोपपातकनामकमध्ययनम् । 'नागपरि - यावणिया नाम अज्झयणं' नागपर्यापनिकानामकमध्ययनम् ' उद्दिसित्तए' उद्देष्टुम्, त्रयोदशवर्षपय यस्य श्रमणस्य उत्थानश्रुत। दिनामकानि - अध्ययनानि अध्यापयितुं कल्पते ॥
एतेषामध्ययनानामयमतिशयः - त्रयोदशवर्षपर्यायः श्रमणो निर्ग्रन्थो यत्र स्थानविशेषे सुचे - तसा मनःप्रणिधानपूर्वकम् उत्थानश्रुतं परावर्त्तयति तत्रैव स्थानविशेषे कुलग्रामदेशा उत्तिष्ठन्ति उद्वशीभवन्ति, तदनन्तरं कार्ये निष्पन्ने सति समुत्थानश्रुते परावर्त्त्यमाने पुनरपि ते कुलग्रामदेशा स्वस्थीभूय निवसन्ति । एवमुपर्युक्तप्रकारेण स्वनामसदृशदेवेन्द्रोपपात इति देवेन्द्रपर्यापनिका - नागपर्यापनिकाऽध्ययनात् देवेन्द्रा नागदेवाश्च स्वस्वाध्ययनाध्येतॄणां समीपे समागच्छन्ति, समागत्य च किङ्करवत् तान् पर्युपासते, एष एवातिशय उत्थानादिश्रुतानाम् || सू० ३० ॥
न्य. ३४