________________
२६४
व्यवहारसूत्रे
जायते तेन कारणेन अष्टवर्षपर्यायस्य स्थानाङ्गं समवायाङ्गं चेति सूत्रद्वयस्याऽध्ययनमष्टमनवमेतिवर्षद्वये करोति एतत्सूत्रद्वयस्य द्वादशानामपि, अङ्गानां मध्ये प्रायेण महर्द्धिकत्वात् ॥ सू० २६ ॥ ततस्ताभ्यां परिकर्मितमतेर्दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तिरुद्दिश्यते । इति सूत्रपञ्चकाशयः ॥ सू० २७ ॥
अथैकादशवर्षपर्यायं श्रमणनिम्रन्थमधिकृत्य सूत्रमाह-'एक्कारसवासपरियायस्स' इत्यादि।
सूत्रम्-- एक्कारसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ खुड्डियाविमाण पविभत्ती महल्लियाविमाणपविभत्ती अंगचूलिया वंगचूलिया विवाहचूलिया नाम अज्झयणं उदिसित्तए ॥ सू० २८॥
छाया-एकादशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते क्षुल्लिकाविमानप्रविभक्तिर्महती विमानप्रविभक्तिरङ्गचूलिकवर्गचूलिका विवाहचूलिका नामाऽध्ययनमुद्देष्टुम् ॥ सू० २८॥
भाष्यम्-'एक्कारसवासपरियायस्स' एकादशवर्षदीक्षापर्यायस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पई' कल्पते खुडियाविमाणपविभत्ती' क्षुल्लिकाविमानप्रविभक्तिः, यत्रकल्पेषु विमाना वर्ण्यन्ते, 'महल्लियाविमाणपविभत्ती' महती विमानप्रविभक्तिः, यत्र कल्पेषु विमानान्येव विस्तारपूर्वकं प्रतिपाद्यन्ते, 'अंगचूलिया' अङ्गचूलिका, तत्राऽङ्गानाम् उपासकदशाप्रभृतीनां पञ्चानां चूलिका निरयावलिका इत्यङ्गचूलिका । 'वंगचूलिया' वर्गचूलिका महाकल्पश्रुतस्य चूलिका वर्गचूलिका । 'विवाहचूलिया' विवाहचूलिका-व्याख्याप्रज्ञप्तेश्चूलिका 'नाम अज्झयणं' एतन्नामकमध्ययनं शास्त्रम् 'उद्दिसित्तए' उद्देष्टुमध्यापयितुम् ॥ सू० २८॥
द्वादशवर्षपर्यायमाश्रित्याह--'बारसवासपरियायस्स' इत्यादि ।
सूत्रम्-'बारसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ अरुणोववाए गरुलोववाए वरुणोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए नाम अज्झयणं उद्दिसित्तए ॥ सू० २९॥
____ छाया-द्वादशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते अरुणोपपातो गरुडोपपातो वरुणोपपातो धरणोपपातो वैश्रमणोपपातो वेलंधरोपपातो नामाध्ययनमुद्देष्टुम् ॥ सू० २९ ॥
भाष्यम्-'बारसवासपरियायस्स' द्वादशवर्षपर्यायस्य यस्य साधोर्दीक्षापर्यायो द्वादशवर्षात्मको व्यतीतः, येन द्वादशवर्षपर्यन्तं श्रामण्यं पालितं तस्य, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पई' कल्पते 'अरुणोववाए' अरुणोपपातः-अरुणोपपातनामकमध्ययनम्, अत्र 'नाम अज्झयणं' इति प्रतिपदे संयोज्यम् । 'गरुलोववाए' गरुडोपपातः-गरुडोपपातनामकमध्यनम् । 'वरुणोववाए' वरुणोपपातः-एतन्नामकमध्ययनम् । 'धरणोववाए' धरणोपपात: