________________
भाष्यम् उ० १० सू० २६-२९ दोक्षापर्यायमाश्रित्य सूत्राध्यापनविधिः २६३ त्रिषु वर्षेषु त्रीणि सूत्राणि उद्देष्टव्यानि येनाऽग्रे स स्थानाङ्ग-समवायाङ्ग-सूत्रोद्देशनयोग्यता प्राप्नुयात्तदर्थम् अग्रिमसूत्रेऽष्टवर्षपर्यायस्य स्थानसमवायोदेशनं प्रतिपादितम् ॥सू०२५॥
अथ--अष्टवर्षपर्यायरूपं चतुर्थसूत्रमाह-'अहवासपरियायस्स' इत्यादि ।
सूत्रम्अहवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ ठाणसमवाया उद्दिसित्तए ॥ सू० २६॥
छाया-अष्टवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते स्थानसमवायौ उद्देष्टुम् ॥ स्० २६ ॥
भाष्यम्-- 'अहवासपरियायस्स' अष्टवर्षपर्यायस्य, यस्य दीक्षापर्यायोऽष्टवर्षात्मको व्यतीतः नवमे च प्रविष्टस्तस्य तादृशस्य, 'समणस्स णिग्गंथस्स' श्रमणस्य निम्रन्थस्य 'कप्पई' कल्पते 'ठाणसमवाया उदिसित्तए' स्थानसमवायो-स्थानाङ्गं समवायाङ्गं चेति सूत्रद्वयम् उद्देष्टुमध्यापयितुम् । ____ अष्टनवात्मके वर्षद्वये स्थानाङ्गसमवायाङ्गेति सूत्रद्वये उद्दिष्टे सति तस्य व्याख्याप्रज्ञप्त्यङ्गोदेशनयोग्यता स्यात्, अग्रिमसूत्रे दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तेरुद्देशनस्य प्रतिपादितत्वात् ॥सू० २६ ॥
तदेवाह-'दसवास.' इत्यादि ।
सूत्रम्- दसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ विवाहे नामं अंगे उदिसित्तए ॥ सू० २७ ॥
छाया- दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते विवाहो नामाङ्गमुद्देष्टुम् ॥२७॥
भाष्यम्--'दसवासपरियायस्स' दशवर्षपर्यायस्य, यस्य दीक्षाकालो दशवर्षात्मको व्यतीतस्तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य-निर्ग्रन्थस्य 'कप्पई' कल्पते, 'विवाहे नामं अंगं उद्दिसित्तए' विवाहनामकमङ्गं-व्याख्याप्रज्ञप्तिसूत्र-भगवतीसूत्रापरपर्यायं सूत्रम् उद्देष्टुमध्यापयितुम् ।
त्रिवर्षपर्यायादारभ्य दशवर्षपर्यायपर्यन्तानां पञ्चानां सूत्राणामयं भावः-त्रिवर्षपर्यायस्याऽऽचारप्रकल्पाध्ययनोदेशेन स साध्वाचारस्य सम्यक् परिपालनसमर्थो भवति तत्र साध्वाचारस्य प्रतिपादितत्वात्।।सू० २३॥ चतुर्वर्षपर्यायस्य सूत्रकृताङ्गोद्देशनमनुज्ञातम् , यतश्चतुर्वर्षपर्यायो धर्मे दृढमतिर्भवेत् हीनपर्यायो मतिभेदेन मिथ्यात्वं प्राप्नुयात् , सूत्रकृताङ्गे च त्रिषष्टयधिकानां त्रयाणां पाखण्डिशतानां दृष्टयः प्ररूपिताः, तदध्ययनेन स कुसमयै पहियते ॥ सू० २४ ॥ पञ्चवर्षपर्यायोऽपवादज्ञानयोग्यो भवतीति कृत्वा तस्य दशाश्रुतस्कन्ध-वृहत्कल्प-व्यवहाराध्यापनमनुज्ञातम् ॥ सू०२५॥ एषां त्रयाणां सूत्राणामध्ययनं पञ्चषट्-सप्तेति वर्षत्रयं यावत् करोति ततः स विकृष्टपर्यायो