________________
व्यवहारस्ने युवा परिपक्वबुद्वितयाऽपवादशास्त्रस्याऽपि ज्ञाने समर्थों भवति, अतस्तस्य जातव्यञ्जनस्याऽध्यापन विधीयते इति ॥ सू० २२॥
पूर्व जातव्यञ्जनायाऽऽचारप्रकल्पाध्ययनमुद्देष्टव्यमिति प्रोक्तम्, एतादृशस्तु अल्पकाल. दीक्षितोऽपि भवेत्तदा तादृशाय श्रमणाय तत् समुद्देष्टव्यं न वा ? इति जिज्ञासायां सूत्रकारो दीक्षापर्यायमाश्रित्याऽऽचाराङ्गादिसूत्राध्ययनक्रमं पञ्चदशभिः सूत्रः प्रदर्शयति, तत्र प्रथमं त्रिचतुःपञ्चाष्टादशवर्षपर्यायसंबन्धि सूत्रपञ्चकमाह-'तिवासपरियायस्स' इत्यादि ।
सूत्रम्- तिवासपरियायस्स समणस्स निग्गंथस्स कप्पइ आयारकप्पे नामं अज्झयणे उदिसित्तए । सू०२३ ॥
छाया-त्रिवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते आचारकल्पो नामाऽध्ययन मुद्देष्टुम् ॥ सू० २३॥
भाष्यम् -'तिवासपरियायस्स' त्रिवर्षपर्यायस्य त्रीणि वर्षाणि परिपूर्णानि पर्यायस्य दीक्षाकालस्य जातानि यस्य स त्रिवर्षपर्यायः प्रारब्धचतुर्थवर्षपर्याय इत्यर्थः, यस्य दीक्षापर्यायो वर्षत्रयात्मकः परिपूर्णो जातश्चतुर्थश्च प्रविष्टस्तस्य 'समणस्स णिगंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पई' कल्पते 'आयारकप्पे णामं अज्झयणे' आचारकल्पो नामाध्ययनम् आचाराङ्गनिशीथादिसूत्रम्, 'उद्दिसित्तए' उद्देष्टुम् अध्यापयितुम् । जातव्यञ्जनस्यापि त्रिवर्षपर्यायस्यैव श्रमणनिम्रन्थस्य आचारकल्पो नामाऽध्ययनमुद्देष्टव्यं भवेत् नाऽन्यस्येति भावः ॥ सू० २३ ॥
सूत्रम्--चउवासपरियायस्स समणस्स णिगंथस्स कप्पइ सूयगडे नाम अंगे उद्दिसित्तए ॥२४॥
पंचवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ दसाकप्पववहारे उद्दिसित्तए ।॥२५॥ छाया- चतुर्वर्षपर्यायस्य प्रमणस्य निर्ग्रन्थस्य कल्पते सूत्रकृतं नामाङ्गमुद्देष्टुम् ॥२४॥ पञ्चवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते दशाकल्पव्यवहारान् उद्देष्टुम् ॥२५॥
भाष्यम् – 'चउवासपरियायस्स' इति, चतुर्वर्षपर्यायस्य परिपूर्णचतुर्वर्षदीक्षाकालस्य श्रमणनिर्ग्रन्थस्य 'सूयगडे नाम अंगे' सूत्रकृतं नामाङ्गं-द्वितीयमङ्गसूत्रमुद्देष्टुं कल्पते ॥ सू० २४ ॥ एवम्-'पंचवासपरियायस्स' इति, पञ्चवर्षपर्यायस्य सञ्जातपरिपूर्णपञ्चवर्षदीक्षाकालस्य श्रमणनिम्रन्थस्य 'दसाकप्पयवहारे' दशाकल्पव्यवहारान्-दशाश्रुतस्कन्धः, बृहत्कल्पः, व्यवहारश्चेति व्यवहारसूत्रं चेति त्रीणि सूत्राणि उद्देष्टुं कल्पते, अस्य पश्च-षट्-सप्तवर्षदीक्षापर्यायरूपेषु