________________
भाग्यम् उ० १० सू० ३२-३७
दीक्षापर्याक्रमेण सूत्राध्यापन विधिः २६७
छाया -- पञ्चदशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते चारणभावना नामाध्ययन मुद्देष्टुम् ॥ सू० ३२ ॥
भाष्यम् – 'पन्न रसवासपरियायस्स' पञ्चदशवर्षपर्यायस्य यस्य पञ्चदशवर्षात्मको दीक्षाकालो व्यतीतस्तादृशस्य, 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य ' कप्पइ' कल्पते, 'चारणभावणा नाम अज्झयणं' चारणभावनानामकमध्ययनम् 'उद्दिसित्तए' उद्देष्टुमध्यापयितुं कल्पते । पञ्चदशवर्षपर्यायस्य साधोः चारणभावनानामकमध्ययनम् अध्यापयितुं कल्पते । अस्यायमतिशयः- चारणभावनानामकाऽध्ययनाध्येतुश्चारणलब्धिरुत्पद्यते, अथवा येन तपोविशेषेण कृतेन जङ्घाचारण- विद्याचारण- लब्धिर्जायते इति तत्रैव वर्णनमुपलभ्यते ॥ सु० ३२ ॥
षोडशवर्ष पर्यायमाश्रित्याह - 'सोलसवासपरियायस्स' इत्यादि ।
सूत्रम् - सोलसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ तेयनिसग्गे नाम अझयणे उद्दित्तिए' || सू० ३३ ॥
छाया - षोडशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते तेजोनिसर्गे नामाध्ययनमुद्देष्टुम् ॥ सू० ३३ ॥
भाष्यम् – 'सोलसवासपरियायस्त' षोडशवर्षपर्यायस्य यस्य साधोदक्षाकालः षोडशवर्षात्को व्यतीतः स षोडशवर्षपर्यायस्तस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पड़' कल्पते तेयनिसग्गे नामं अज्झयणे' तेजोनिसर्गो नामकमध्ययनम् ' उद्दित्तिए ' उद्देष्टुम् - अध्यापयितुम् । तेजोनिसर्गाऽध्ययनाध्येतुस्तेजोनिःसरणं भवति - तेजसो निस्सरणं प्रादुर्भावो जायते, अयमेवातिशयः ॥ सू० ३३ ॥
सप्तदशपर्यायमधिकृत्याऽऽह - 'सत्तरसवासपरिया यस्स' इत्यादि ।
सूत्रम् -- सत्तरसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ आसीविसभावणा नाम अज्झयणे उद्दिसित्तए ॥ सु० ३४ ॥
छाया - सप्तदशवर्षपर्यायस्य श्रमणस्य नित्थस्य कल्पते आशीविषभावना नामाऽध्ययनमुद्देष्टुम् ॥ ३४ ॥
भाष्यम् – 'सत्तरसवासपरियायस्स' सप्तदशवर्षपर्यायस्य यस्य दीक्षाकालः सप्तदशवर्षात्मको व्यतीतः सः सप्तदशवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पर' कल्पते 'आसी विसभावणा नाम अज्झयणं' आशीविषभावनानामकमध्ययनम् 'उद्दिसित्तए' उद्देष्टुम् - - अध्यापयितुं कल्पते, आशीविषभावनाऽध्ययनपाठकस्य आशीविषलब्धिः