Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 294
________________ भाष्यम् उ० १० सू० २२-२५ दीक्षा पर्यायमश्रित्य सूत्राध्यापन विधिः २६१ छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य वा क्षुल्लिकाया वा अव्यञ्जनजातस्य आचारकल्पो नामाऽध्ययनमुद्देष्टुम् ॥ सू० २१ ॥ भाष्यम् – 'नो कप्पर' नो नैव कल्पते, 'णिग्गंथाण वा निग्गंधीणवा' निर्ग्रन्थानां वा निर्ग्रन्थीनां वा, 'खुड्डगस्स वा खुड्डियाए वा' क्षुल्लकस्य वा क्षुल्लिकाया वा, 'अव्वंजणजायस्स' अव्यञ्जनजातस्य तत्र व्यञ्जनानि युवत्वसंसूचकक्षालोमादीनि तानि न जातानि न समुत्पन्नानि यस्य यस्या वा सोऽव्यञ्जनजातोऽव्यञ्जनजाता वा, तस्य तस्या वा अप्राप्तषोडशवर्षस्य क्षुल्लकस्य, अप्राप्तयौवनायाः क्षुल्लिकाया वेत्यर्थः ' आयारकप्पे नामं अज्झयणे' आचारकल्पो नामाऽध्ययनम्, अत्र आचारपदेन आचाराङ्गं कल्पपदेन निशीथमिति आचाराङ्गसूत्रं निशीथसूत्रं च ' उद्दिसित्तए' उद्देष्टुं समुपदेष्टुम् । उक्तञ्च — "यावन्न यौवनाऽऽशंसि, लोमलज्जोद्गमः स्फुटम् । तावन्निशीथसूत्राणां कल्पतेऽध्ययनं नहि" ॥१॥ यावत्कालपर्यन्तं यौवनाऽभिव्यञ्जक लोमराजिः नेत्राद्यङ्गप्रत्यङ्गे लज्जोद्गमः स्फुटं नावभासेत तावत्कालपर्यन्तं बालस्य दीक्षितस्यापि श्रमणस्य श्रमण्या वा निशीथसूत्रादिकमध्यापयितुं श्रमणानां श्रमणीनां वा न कल्पते, अपक्वमतिकाले तदध्ययनस्य निषेधात् । यथा-ऊनाष्टवर्षो बालश्चारित्रधारणे समर्थो न भवतीति अप्राप्ताऽष्टमवर्षस्य दीक्षणं प्रतिषिद्धम् । एवमेवाप्राप्तव्यञ्जनस्याऽऽचाराङ्ग - निशीथ - सूत्रादिकं नाऽध्याप्यते, अपरिपक्व बुद्धितयाऽपवादशास्त्रस्य धारणेऽयोग्यतामाकलय्य स्थविरास्तान् अज्ञातव्यञ्जनान् आचाराङ्ग-निशीथसूत्रादिकं नाऽध्यापयन्तीति ॥ सू० २१ ॥ अथाऽऽचारप्रकल्पनामाध्ययनकालमाह - ' कप्पइ णिग्गंथाण वा' इत्यादि । सूत्रम् - कप्पर णिग्गंथाण वा णिग्गंथीण वा खुड्डगस्स खुड्डियाए वा वंजणजायस्स आयारकप्पे नामं अज्झयणे उद्दित्तिए । सू० २२॥ छाया – कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य क्षुल्लिकाया वा व्यञ्जनजातस्य आचारकल्पो नामाध्ययनमुद्देष्टुम् ॥ सू० २२ ॥ भाष्यम् – 'कप्पड़' कल्पते 'णिग्गंथाण वा' निर्ग्रन्थानां वा 'णिग्गंथीण वा' निर्ग्रन्थीनां वा 'खुड्डगस्स वा खुड्डियाएवा' क्षुल्लकस्य बालकस्य वा, क्षुल्लिकाया वा, बालिका 'वजण जायस्स' व्यञ्जनजातस्य सञ्जातयुक्त्व सूचककक्षारोमादिव्यञ्जनस्य तादृशस्य श्रमणस्य श्रमण्या वा 'आयारकप्पे नामं अज्झयणे' आचारकल्पो नामाध्ययनं आचाराङ्ग-निशीथ-रूपम् 'उद्दित्तिए' उद्देष्टुं समुदेष्टुम् अध्यापयितुम्, कस्मात्कारणादिति चेद् अत्र ब्रूमः - तादृशो हि

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346