Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 293
________________ व्यवहारसूत्रे छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लक वा क्षुल्लिका वा ऊनावर्षजातमुपस्थापयितुं वा संभोक्तुं वा ॥ सू० १९ ॥ भाष्यम्-'नो कप्पइ' नो-नैव कल्पते, 'णिग्गंथाण वा' निर्ग्रन्थानां श्रमणानां वा 'णिगंथीण वा' निम्रन्थीनां श्रमणीनां वा 'खुड्डगं वा खुडियं वा' क्षुल्लकं क्षुल्लिका वा-तत्रक्षुल्लकोऽल्पवयस्कः तम्, क्षुल्लिका-अल्पवयस्का ताम्, तादृशं पुनः कथम्भूतम्, तत्राह-'ऊण?' इत्यादि, 'ऊणहवासजायं' ऊनाष्टवर्षजातम् ऊनानि किञ्चिन्न्यूनानि अष्ट वर्षाणि जाते जन्मनि यस्य स ऊनाष्टवर्षजातः-अष्टवर्षाद् अल्पावस्थाकः, तम् , तां वा क्षुल्लकं क्षुल्लिकां वा, 'उवद्वावर' उपस्थापयितुं पञ्चमहाव्रतेषु-उपस्थापयितुं-प्रव्राजयितुमित्यर्थः । तथा--संभुंजित्तए' संभोक्तुं वा एकमण्डल्यां सहोपविश्य तेन सह संभोक्तुम्-आहारादिसंभोगं कर्तुम् श्रमणस्य श्रमण्या वा न कल्पते, यथाहि-अष्टवर्षान्सूनवयस्के बालके उपस्थापितं चारित्रं मतेरपरिपक्वत्वेन न सम्यग् अवतिष्ठते, तदवस्थायाश्चञ्चलस्वभावत्त्वात् , यथा आमे घटे निहितं जलं नावतिष्ठते घटस्याऽऽमत्वेन जलं निशीर्यते तथैवात्रापि विज्ञेयम् ॥ सू० १९ ॥ पूर्वम् ऊनाष्टवर्षजातं क्षुल्लकादिकं न दीक्षयेदित्युक्तं तेनाऽऽयातं पूर्णाष्टवर्षजातं तु दीक्षयेदिति तन्निराकरणाय सूत्रमाह-'कप्पइ' इत्यादि । सूत्रम् -कप्पइ णिग्गंथाण वा णिगंथीण वा खुड्डगं वा खुड्डियं वा साइरेगअट्ठवासजायं उबहावेत्तए वा संभुंजित्तए वा ॥ सू० २०॥ छाया-कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकं वा क्षुल्लिक वा सातिरेकाऽष्टवर्षजातम् उपस्थापयितुवा संभोक्तुं वा ॥ सू० २० ॥ भाष्यम्-'कप्पई' कल्पते, "णिग्गंथाण वा' निर्ग्रन्थानां वा 'णिग्गंथीण वा' निर्ग्रन्थीनां वा 'खुड्डगं वा' क्षुल्लकं-बालकं वा, 'खुड्डियं वा' क्षुल्लिकां-बालिकां वा, 'साइरेगअवासजायं' सातिरेकाष्टवर्षजातम् ‘जन्मनाऽष्टवर्षादधिकवयस्कम् 'उवट्ठावेत्तए वा' उपस्थापयितुं-प्रव्राजयितुं वा, तथा 'संभुंजित्तए वा' संभोक्तुं वा-तेन तया वा सह आहारादिसंभोगं कत्तु कल्पते, यतः सातिरेकाष्टवर्षायुष्के मतिर्विकसितुं प्रारभते ततो भगवतेदं प्रतिपादितम् ॥ सू० २० ॥ पूर्व सातिरेकाष्टवर्षायुष्कं दीक्षयेदिति प्रोक्तम् , सम्प्रति तादृशस्यापि आचारप्रकल्पनामाध्ययनस्य निषेधकालं प्रदर्शयति-'नोकप्पइ' इत्यादि । सूत्रम् - नोकप्पई णिग्गंथाण वा णिग्गंथीण वा खुडगस्स वा खुडियाए वा अव्वंजण जायस्स आयारकप्पे नामं अज्झयणे उद्दिसित्तए ॥सू० २१॥

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346