________________
व्यवहारसूत्रे छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लक वा क्षुल्लिका वा ऊनावर्षजातमुपस्थापयितुं वा संभोक्तुं वा ॥ सू० १९ ॥
भाष्यम्-'नो कप्पइ' नो-नैव कल्पते, 'णिग्गंथाण वा' निर्ग्रन्थानां श्रमणानां वा 'णिगंथीण वा' निम्रन्थीनां श्रमणीनां वा 'खुड्डगं वा खुडियं वा' क्षुल्लकं क्षुल्लिका वा-तत्रक्षुल्लकोऽल्पवयस्कः तम्, क्षुल्लिका-अल्पवयस्का ताम्, तादृशं पुनः कथम्भूतम्, तत्राह-'ऊण?' इत्यादि, 'ऊणहवासजायं' ऊनाष्टवर्षजातम् ऊनानि किञ्चिन्न्यूनानि अष्ट वर्षाणि जाते जन्मनि यस्य स ऊनाष्टवर्षजातः-अष्टवर्षाद् अल्पावस्थाकः, तम् , तां वा क्षुल्लकं क्षुल्लिकां वा, 'उवद्वावर' उपस्थापयितुं पञ्चमहाव्रतेषु-उपस्थापयितुं-प्रव्राजयितुमित्यर्थः । तथा--संभुंजित्तए' संभोक्तुं वा एकमण्डल्यां सहोपविश्य तेन सह संभोक्तुम्-आहारादिसंभोगं कर्तुम् श्रमणस्य श्रमण्या वा न कल्पते, यथाहि-अष्टवर्षान्सूनवयस्के बालके उपस्थापितं चारित्रं मतेरपरिपक्वत्वेन न सम्यग् अवतिष्ठते, तदवस्थायाश्चञ्चलस्वभावत्त्वात् , यथा आमे घटे निहितं जलं नावतिष्ठते घटस्याऽऽमत्वेन जलं निशीर्यते तथैवात्रापि विज्ञेयम् ॥ सू० १९ ॥
पूर्वम् ऊनाष्टवर्षजातं क्षुल्लकादिकं न दीक्षयेदित्युक्तं तेनाऽऽयातं पूर्णाष्टवर्षजातं तु दीक्षयेदिति तन्निराकरणाय सूत्रमाह-'कप्पइ' इत्यादि ।
सूत्रम् -कप्पइ णिग्गंथाण वा णिगंथीण वा खुड्डगं वा खुड्डियं वा साइरेगअट्ठवासजायं उबहावेत्तए वा संभुंजित्तए वा ॥ सू० २०॥
छाया-कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकं वा क्षुल्लिक वा सातिरेकाऽष्टवर्षजातम् उपस्थापयितुवा संभोक्तुं वा ॥ सू० २० ॥
भाष्यम्-'कप्पई' कल्पते, "णिग्गंथाण वा' निर्ग्रन्थानां वा 'णिग्गंथीण वा' निर्ग्रन्थीनां वा 'खुड्डगं वा' क्षुल्लकं-बालकं वा, 'खुड्डियं वा' क्षुल्लिकां-बालिकां वा, 'साइरेगअवासजायं' सातिरेकाष्टवर्षजातम् ‘जन्मनाऽष्टवर्षादधिकवयस्कम् 'उवट्ठावेत्तए वा' उपस्थापयितुं-प्रव्राजयितुं वा, तथा 'संभुंजित्तए वा' संभोक्तुं वा-तेन तया वा सह आहारादिसंभोगं कत्तु कल्पते, यतः सातिरेकाष्टवर्षायुष्के मतिर्विकसितुं प्रारभते ततो भगवतेदं प्रतिपादितम् ॥ सू० २० ॥
पूर्व सातिरेकाष्टवर्षायुष्कं दीक्षयेदिति प्रोक्तम् , सम्प्रति तादृशस्यापि आचारप्रकल्पनामाध्ययनस्य निषेधकालं प्रदर्शयति-'नोकप्पइ' इत्यादि ।
सूत्रम् - नोकप्पई णिग्गंथाण वा णिग्गंथीण वा खुडगस्स वा खुडियाए वा अव्वंजण जायस्स आयारकप्पे नामं अज्झयणे उद्दिसित्तए ॥सू० २१॥