________________
भाष्यम् उ० १० सु. १९-२१
अवस्थामाश्रित्य दीक्षादानविधिः २५९ भाष्यम् ---'तओ सेहभूमीओ पन्नत्ताओ' तिम्रः-त्रिसंख्यकाः शैक्षभूमयः, शैक्षकाणांशिष्याणां भूमयः-उपस्थपनाकालरूपाः प्रज्ञप्ताः-कथिताः, तानेव भेदान् दर्शयितुमाह-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'सत्तराईदिया' सप्तरात्रिन्दिवा-सप्तरात्रिंदिवप्रमाणा, 'चाउमासिया' चातुर्मासिकी-चतुर्मासप्रमाणा, 'छम्मासिया' पाण्मासिकी षण्मासप्रमाणा, तत्र-तासु तिसृषु मध्ये 'छम्मासिया य उक्कोसिया' पाण्मासिकी, उत्कृष्टा शैक्षभूमिः पाण्मासिकी-भवति । तथा'चाउम्मासिया मज्झमिया' चातुर्मासिकी, मध्यमा शैक्षकभूमिः चातुर्मासिकी भवति । 'सत्तराइंदिया जहन्ना' सप्तरात्रिंदिवा जघन्या, जघन्या शैक्षकभूमिः सप्तरात्रिंदिवप्रमाणा भवति । ता एताः तिस्रः शैक्षकभूमयो भवन्तीति ।
___ अयं भावः--यः शैक्षकः पूर्वं गृहीतप्रव्रज्यः उत्प्रव्रजितो भूत्वा पुनरपि प्रव्रज्यां प्रतिपन्नवान् स शैक्षकः सप्तमे दिवसे उपस्थापनीयः । तस्य हि यावद्भिर्दिनैः पूर्वविस्मृतसाधुसामाचारीरूपघडध्ययनात्मकमावश्यकमधीतं भवेत् तदा दीक्षादिना सप्ममे दिवसे छेदोपस्थापनीये चारित्रे उपस्थापयितव्यः, एषा जघन्या भूमिः। यद्येतावदिनेषु आवश्यकं नाभ्यस्तं भवेत्तदा स चतुर्थे मासे उपस्थापनीयः, एषा मध्यमिका भूमिः । चतुर्भिर्मासैरप्यावश्यकं नाधीतं भवेत् तदा षष्ठे मासे उपस्थापयितव्यः, एषा उत्कृष्टा भूमिः । दुर्मेधसं धर्ममश्रद्दधानं च प्रतीत्य उत्कृष्टा पाण्मासिकी भूमिर्भवतीति ।
अत्रेयं भावना-यदि सप्तसु दिवसेषु आवश्यकमभ्यस्तं न भवेत्तदा चतुर्थमासि उपस्थापयितव्यः । ततोऽपि यदि न भवेदभ्यस्तमावश्यकं तदा षष्ठेमासे उपस्थापयितव्यः । ततोऽपि न भवेत् तदा यदा भवेत्तदोपस्थापयितव्यः। जघन्यभूमिप्राप्तः शैक्षो धर्मश्रद्धापरिणतत्वेन परिणामकः कथ्यते । परिणामको द्विप्रकारको भवति, यथा-आज्ञापरिणामको दृष्टान्तपरिणामकश्च । तत्र आज्ञापरिणामकः आज्ञयैव--जिनाज्ञामात्रेणैव परिणतो भवति 'तमेव सच्चं नीसंकं जं जिणेहि पवेइयं तदेव सत्यं निश्शकं यज्जिनैः प्रवेदितम्, इत्येवंप्रकारेण जिनोक्तानि जीवा-जीवादितत्त्वानि निश्शकं श्रद्दधाति न कारणं जानीते न वा कारणं पृच्छति स आज्ञापरिणामकः शैक्षः ।
यस्तु परोक्षहेतुकमर्थं प्रत्यक्षप्रसिद्धदृष्टान्तद्वारा आत्मबुद्धौ-आरोपयति नान्यथा, स दृष्टान्त परिणामकः । दृष्टान्तेन विवक्षितम) परिणमयति स्वबुद्धौ स दृष्टान्तपरिणामक इति ॥ सू० १८ ॥
पूर्व शैक्षकस्योपस्थापनाकालः प्रोक्तः, साम्प्रतं शैक्षकस्याऽवस्थामधिकृत्योपस्थापनाप्रकारमाह-'नो कप्पइ निगंथाण वा' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाण वा णिग्गंथीण वा खुड्डगं वा खुड्डियं वा ऊणट्ठवासजाय उवट्ठावेत्तए वा संभुजित्तए वा ॥ सू० १९ ॥