Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 277
________________ २४४ व्यवहारसूत्रे व्युच्छेदो भविष्यति तदा शेषैर्व्यवहारैर्व्यवहर्त्तव्यं भविष्यतीति कृत्वा श्रुतादिव्यवहारानपि सूत्रे निबद्धवन्तः । तत्रापि व्यवहारः क्षेत्रं कालं च प्राप्य यो यथा संभविष्यति, तेन तथा व्यवहारः करणीयो भविष्यतीति । अयं भावः—यस्मिन् यस्मिन् काले यो यो व्यवहारो व्यवच्छिन्नोऽव्यवच्छिन्नो वा भविध्यति तस्मिन् तस्मिन् काले प्रागुक्तक्रमेण साधवो व्यवहारं व्यवहरिष्यन्ति । तथा यस्मिन् यस्मिन् क्षेत्र युगप्रथानैराचार्यादिभियां यां व्यवस्था व्यवस्थापयिष्यन्ति तया तया व्यवस्थया अनिश्रितोपश्रित व्यवहारः प्रवर्तितो भविष्यतीति विचार्य आगमादिपञ्चव्यवहारसूत्रं ते निबद्धवन्त इति । ____ अपि च-आगमादिका धारणान्ताश्चत्वारो व्यवहाराः यावत्तीर्थप्रवृत्तिस्तावद् भविष्यति, जीतव्यवहारस्तु यावच्चतुर्विधः सङ्घः प्रचलिष्यति तावत्कालपर्यन्तं स्थास्यति तस्मात् कारणात् जीतव्यहारोपादानं कृतमिति विवेकः । सूत्रे यदुक्तम्-सूत्रोक्तव्यवहारं व्यवहरन् श्रमणो निर्ग्रन्थ आज्ञया आराधको भवतीति, सा चाऽऽराधना खलु त्रिप्रकारिका भवति यथा-उस्कृष्टाऽऽराधना १, मध्यमाऽऽराधना २, जघन्याऽऽराधना च । तत्रोत्कृष्टाया आराधनायाः फलम्—एको भवः, मध्यमाया आराधनायाः फलम् द्वौ भवौ, जघन्याया आराधनायाः फलम्-त्रयो भवाः । अथवा यदि तद्भवे मोक्षो न जातस्तदा उत्कृष्टाया आराधनायाः फलम्-जघन्यसंसरणम् द्वौ भयो । मधयमाया आराधनायास्त्रयो भवाः, जघन्याया आराधनाया उत्कृष्टा अष्टौ भवा भवेयुरित्याराधनायाः फलं विज्ञेयम् । सूत्रोक्तव्यवहारपदव्याख्या यथा-येनाऽऽगमादिना श्रमणो व्यवहरति-व्यवहारं करोति सोऽप्यागमादिर्व्यवहारः, व्यवह्रियतेऽनेनेति व्युत्पत्त्या-आगमादेरपि व्यवहारस्वात, यद्यपि व्यवहर्त्तव्यं वस्तुप्रतिक्रमणप्रतिलेखनादिकं मुनिर्व्यवहरति सोऽपि व्यवहार एव । व्यवहियते यः स व्यवहार इति कर्मसाधनात् तदेवं करणे कर्मणि उभयत्रापि व्यवहारशब्दः प्रयुज्यते शाब्दिकमर्यादाबलात् ॥ सू० ५॥ पूर्व व्यवहाराः प्रदर्शिताः, ते च पुरुषाधीना भवन्तीति तान् सम्यग्ज्ञानवन्तः पुरुषा एव व्यवहर्तुमर्हन्तीति । पुरुषाश्चार्थकरा मानकरा इति द्विविधा भवन्तीति तेषां चतुर्भङ्गी प्रदर्श्यते'चत्तारि' इत्यादि । सूत्रम्-चत्तारि पुरिसजाया पन्नता तंजहा-अट्टकरे नाम एगे नो माणकरे १, माणकरे णामं एगे नो अट्टकरे २, एगे अट्ठकरे वि माणकरे वि ३, एगे नो अट्टकरे नो माणकरे ॥ सू०६॥

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346