Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 280
________________ माण्यम् उ० १० सू०८-९ चतुष्पुरुषजातप्रकरणम् २४७ पुरुषः प्रथमः १ । 'माणकरे णाम एगे नो गणढ़करे' मानकरो नाम एको नो गणार्थकरः मानं करोति नो करोति गणस्यार्थ-कार्यम् स च द्वितीयः २ । 'एगे गणटकरेवि माणकरेवि ३, एको गणार्थकरोऽपि मानकरोऽपि-गणस्याऽर्थसंपादकोऽपि भवति तथा मानकरोऽपीति तृतीयः ३ । एगे णो गणट्टकरे णो माणकरे' एको नो गणार्थकरो नो मानकरः, न खलु गणस्याऽर्थ-कार्यमेव करोति न वा मानमभिमानं करोतीति चतुर्थः पुरुषः ४ तेषु चतुर्वपि पुरुझजातेषु ये साधोः समानरूपधारिणो मुण्डितशिरस्का भिक्षाटनशीलाः, तथा दैवचिन्तकाः निदर्शनं दृष्टान्तो भवति । तत्र- दैवचिन्तका नाम ते ये शुभाशुभं राज्ञे कथयन्ति, शकुनादिशास्त्रज्ञा इत्यर्थः, त एवात्र दृष्टान्तः, तथाहि-प्रथमः सः यो हि राज्ञा पृष्टोऽपृष्टो वा शुभाशुभं साधयति, किन्तु-मानं न करोति १ । द्वितीयो मानं करोति न च मानादेव किञ्चित् पृष्टोऽपि कथयति २। तृतीयो यदि पृच्छति तदा कथयति नो पृच्छति तदा न कथयति ३ । चतुर्थो न किमपि कथयति न वा मानमेव करोति ४ । तत्र द्वौ प्रथमतृतीयौ सफलौ, द्वौ च द्वितीयचतुर्थी विफलौ । एवं दृष्टान्तगतेन प्रकारेण गणेऽपि प्रथमतृतीयौ सफलौ, द्वौ च द्वितीय-चतुर्थो विफलावेव ज्ञातव्यौ । तेषां चतुर्णामपि साधूनां मध्ये प्रथम आहारोपधिशयनासनादिभिर्गच्छस्योपकारं करोति, न च कदाचिदपि मानं करोति १ । द्वितीयो मानं करोति न च गणधरस्योपकारं करोति २ । तृतीयो गच्छस्योपकारमपि करोति मानमपि करोति ३ । चतुर्थस्तु-न गच्छस्योपकारं करोति न वा मानमेव करोति ४ । त इमे चत्वारो मुनिप्रभेदा भवन्तौति ॥ सू० ७ ॥ अथ गणसंग्रहमधिकृत्य चतुर्भङ्गीमाह—'चत्तारि पुरिसजाया' इत्यादि । सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता तंजहा-गणसंगहकरे नामं एगे नो मानकरे १ एगे माणकरे नो गणसंगहकरे २, एगे गणसंगहकरेवि-माणकरेवि ३, एगे नो गणसंगहकरे नो माणकरे ४ ॥ सू० ८॥ छाया-चत्वारः पुरुषजाताः प्रज्ञप्ताः, तद्यथा-गणसंग्रहकरो नाम एको न मानकरः १, एको मानकरो नो गणसंग्रहकरः २, एको गणसंग्रहकरोऽपि मानकरोऽपि ३, एको नो गणसंहग्रकरो नो मानकरः ॥ सू० ८॥ भाष्यम्-'चत्तारि पुरिसजाया' चत्वारः पुरुषजाताः, तत्र-चत्वारः-चतुष्प्रकारकाः पुरुषजाताः-पुरुषाः 'पन्नत्ता' प्रज्ञप्ताः, तानेव मेदान् दर्शयितुमाह-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'गणसंगहकरे णामं एगे नो माणकरे' गणसंग्रहकरो नाम एको न मान

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346