________________
माण्यम् उ० १० सू०८-९
चतुष्पुरुषजातप्रकरणम् २४७ पुरुषः प्रथमः १ । 'माणकरे णाम एगे नो गणढ़करे' मानकरो नाम एको नो गणार्थकरः मानं करोति नो करोति गणस्यार्थ-कार्यम् स च द्वितीयः २ । 'एगे गणटकरेवि माणकरेवि ३, एको गणार्थकरोऽपि मानकरोऽपि-गणस्याऽर्थसंपादकोऽपि भवति तथा मानकरोऽपीति तृतीयः ३ । एगे णो गणट्टकरे णो माणकरे' एको नो गणार्थकरो नो मानकरः, न खलु गणस्याऽर्थ-कार्यमेव करोति न वा मानमभिमानं करोतीति चतुर्थः पुरुषः ४
तेषु चतुर्वपि पुरुझजातेषु ये साधोः समानरूपधारिणो मुण्डितशिरस्का भिक्षाटनशीलाः, तथा दैवचिन्तकाः निदर्शनं दृष्टान्तो भवति । तत्र- दैवचिन्तका नाम ते ये शुभाशुभं राज्ञे कथयन्ति, शकुनादिशास्त्रज्ञा इत्यर्थः, त एवात्र दृष्टान्तः, तथाहि-प्रथमः सः यो हि राज्ञा पृष्टोऽपृष्टो वा शुभाशुभं साधयति, किन्तु-मानं न करोति १ । द्वितीयो मानं करोति न च मानादेव किञ्चित् पृष्टोऽपि कथयति २। तृतीयो यदि पृच्छति तदा कथयति नो पृच्छति तदा न कथयति ३ । चतुर्थो न किमपि कथयति न वा मानमेव करोति ४ ।
तत्र द्वौ प्रथमतृतीयौ सफलौ, द्वौ च द्वितीयचतुर्थी विफलौ । एवं दृष्टान्तगतेन प्रकारेण गणेऽपि प्रथमतृतीयौ सफलौ, द्वौ च द्वितीय-चतुर्थो विफलावेव ज्ञातव्यौ । तेषां चतुर्णामपि साधूनां मध्ये प्रथम आहारोपधिशयनासनादिभिर्गच्छस्योपकारं करोति, न च कदाचिदपि मानं करोति १ । द्वितीयो मानं करोति न च गणधरस्योपकारं करोति २ । तृतीयो गच्छस्योपकारमपि करोति मानमपि करोति ३ । चतुर्थस्तु-न गच्छस्योपकारं करोति न वा मानमेव करोति ४ । त इमे चत्वारो मुनिप्रभेदा भवन्तौति ॥ सू० ७ ॥
अथ गणसंग्रहमधिकृत्य चतुर्भङ्गीमाह—'चत्तारि पुरिसजाया' इत्यादि ।
सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता तंजहा-गणसंगहकरे नामं एगे नो मानकरे १ एगे माणकरे नो गणसंगहकरे २, एगे गणसंगहकरेवि-माणकरेवि ३, एगे नो गणसंगहकरे नो माणकरे ४ ॥ सू० ८॥
छाया-चत्वारः पुरुषजाताः प्रज्ञप्ताः, तद्यथा-गणसंग्रहकरो नाम एको न मानकरः १, एको मानकरो नो गणसंग्रहकरः २, एको गणसंग्रहकरोऽपि मानकरोऽपि ३, एको नो गणसंहग्रकरो नो मानकरः ॥ सू० ८॥
भाष्यम्-'चत्तारि पुरिसजाया' चत्वारः पुरुषजाताः, तत्र-चत्वारः-चतुष्प्रकारकाः पुरुषजाताः-पुरुषाः 'पन्नत्ता' प्रज्ञप्ताः, तानेव मेदान् दर्शयितुमाह-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'गणसंगहकरे णामं एगे नो माणकरे' गणसंग्रहकरो नाम एको न मान