________________
२४८
व्यवहारसूत्रे
करः, तत्र गणस्य- गच्छस्य संग्रह - द्रव्यभावभेदभिन्नं करोति-संपादयति यः स गणसंग्रह - करः, संग्रहो द्विविधो द्रव्यतो भावतश्च तत्राऽऽहारवस्त्रपात्रादिकं द्रव्यसंग्रहः, सूत्रार्थज्ञानादिकं भावसंग्रहः, तदुभयमपि संग्रहं संपादयति नो मानकरः - नो- न कथमपि मानकरः आहारवस्त्र पात्रादिना ज्ञानादिना च गच्छस्योपग्रहं करोति किन्तु नाभिमानं करोतीति प्रथमः १ । 'एगे माणकरे नो गणसंगहकरे २' एको मानकरो नो गण संग्रहकरः - स्वस्य जातिकुलादे - मनमेव करोति गणसंग्रहं न करोतीति द्वितीयः २ । ' एगे गणसंगहकरेवि माणकरेवि' एको गणसंग्रहकरोऽपि मानकरोऽपि गणस्यापि संग्रहं करोति मानमपि करोतीति तृतीय ३ । 'एगे नो गणसंगहकरे नो माणकरे ४' एको नो गणसंग्रहकरो नो मानकरः, द्वयमपि न करोतीति चतुर्थः ४ ।
अयं भावः तत्र प्रथमभङ्गीयः साधुः द्रव्यत आहारोपधिशय्यादिद्वारा संग्रहकरो भवति, भावतो ज्ञानादिना संग्रहकरो भवति, ग्रणनायके आचार्येऽसमर्थे सति यदा गुरुः शारीरिकादिसामर्थ्याऽभावेन वाचनादाने शक्तो न भवति तदा शिष्यात् प्रातीच्छकात् वाचयति एषः प्रथमः ९ । द्वितीयस्तु - मानं करोति न तु द्रव्यतो भावतो वा गणस्य संग्रहं करोति २ । तृतीयस्तु - गणस्य द्रव्यतो भावतश्च संग्रहं करोति ३ । चतुर्थस्तु न द्रव्यतो न भावतो गणस्य संग्रहं करोति ४ । तदेवं चत्वारः पुरुषा भवन्ति ॥ सू० ८ ॥
अथ गणशोभामधिकृत्य चतुर्भङ्गीमाह - ' चत्तारि पुरिसजाया' इत्यादि ।
सूत्रम् - चत्तारि पुरिसजाया पन्नत्ता, तंजसो करे १, माणकरे नामं एगे नो गणसोहकरे २, एगे एगे नो गणसोहकरे णो माणकरे ४ ।। सू० ९ ॥
गणहाहकरे नाम एगे नो माण
गण सोहकरेवि माणक रेवि ३,
छाया - चत्वारः पुरुषजाताः प्रशप्ताः, तद्यथा- गणशोभाकरो नाम एको नो मानकरः १, मानकरो नाम एको नो गणशोभाकरः २, एको गणशोभाकरोऽपि मानकरोऽपि ३, एको नो गणशोभाकरो नो मानकरः ४ ॥ सू० ९ ॥
भाष्यम् – ' चत्तारि' चत्वारः 'पुरिसजाया' पुरुषजाताः - पुरुषप्रकाराः 'पन्नत्ता' प्रज्ञप्ताः । तानेव चतुर्भेदान् पुरुषान् दर्शयितुमाह - 'तं जहा ' तद्यथा - ' गण सोहकरे नाम एगे नो माणकरे१' गणशोभाकरो नाम एको नो मानकरः, तत्र गच्छस्य चतुविषसङ्घस्य शोभां गणस्य ख्यातिं प्रवचनप्रभावनारूपां वा करोति स 'गणशोभाकरः, नो मानकरः न तु कदाचिदपि गणस्य शोभाकरणात् स्वमनसि मानम् अभिमानं करोति, एतादृशः प्रथमः पुरुषः १ ।
'माणकरे नाम एगे नो गणसोहकरे२' मानकरो नाम एको नो गणशोभाकरः, मानमेव करोति किन्तु कदाचिदपि गणस्य शोभां न करोति, एष द्वितीयः २ । 'एगे गण