________________
भाष्यम् उ० १० सू० १०
चतुष्प्रकारपुरुषजातनिरूपणम् २४९ सोहकरेवि माणकरेवि' एकस्तृतीयः सः-यो गणशोभाकरोऽपि मानकरोऽपि शोभामानयोरुभयोरपि कारकः स तृतीयः ३ । 'एगे नो गणसोहकरे नो माणकरे' एकश्चचतुर्थः स पुरुषो यो न कदाचिदपि गणशोभाकरो न वा मानकरो भवति उभयवर्जितश्चतुर्थः ४ । अत्रापि-चतुर्षु भङ्गेषु मध्ये प्रथमतृतीयौ सफलौ, द्वितीयचतुर्थभङ्गौ विफलाविति ॥
तत्र-गणशोभाकरो नाम-यो गणं शोभयति, शोभा खलु वादिजयप्रवचनोड्डाहनिवारणादिभिर्भवति, तथाहि-वादेन वादिनं पराजित्य गणं शोभयति, उत्सूत्रप्ररूपकं सूत्रार्थ सम्यक् प्रदर्य जिनमार्गे स्थापयति, प्रवचनाक्षेपकान् सूत्रप्रमाणं प्रदर्श्य प्रवचनप्रभावनां वर्धयति धर्म-कथादिभिनिमित्तैः, तथा विद्यादिभिश्चोन्मार्गगतान् यथायोगं जिनधर्मे आनयति, इत्येवंप्रकारेण सदा गणं शोभयति ।
अयं भावः- यदा कदाचित् सकलदर्शनपारदृश्वा वादी समागत्य गणनायकस्य पुरत एवं वदति-भो आचार्यमतप्रचारक ! साधो ! यदि त्वयि पाण्डित्यं भवेत् , यदि वा पाण्डित्येन स्वकीयं मतं लोके व्यवस्थापथसि, तर्हि राजादिपरिवृतपरिषदि मया सह वादं कुरु, यदि मां विजेष्यसि तदा त्वन्मतस्य संस्थापनं स्यात्, अहं तव धर्म स्वीकरिष्यामि, नो चेत् केवलं विप्रतारकमेव त्वां मन्ये । तदा यदि प्रतिवादिना वादं कत्तै स गणनायको न शक्को भवेत् तदा महती शासनस्याऽप्रतिष्ठा स्यात् इति मन्यमानो वादनिपुणः साधुस्तं दुर्दान्तवादिनं सर्वज्ञसिद्धान्तोक्तमनेकान्तवादं पुरस्कृत्य पराजयति, पराजित्य च तं वादिनं जिनधर्मे स्थापयित्वा शासनस्य शोभां वर्धयति । एवंप्रकारेण स गणस्य शोभाकरो भवति । न केवलं वादेनैव पराजित्य गणशोभाकरः किन्तु धर्मकथां कृत्वा गणं शोभयति । तथा निमित्तादिशास्त्रं सम्यग् ज्ञात्वा निमित्तादिकथनद्वारा राजानमावर्जयित्वा शासनस्य ख्याति लोके संपादयति । एवं विद्यादिबलात् महतोऽपि सङ्घप्रयोजनस्य साधनाद् गणं शोभयति । यदा कदाचित् सङ्घस्य महत्कार्य समुपस्थितं भवेत् कार्य च तादृशं प्रकारान्तरेण साधितं न भवति, तदा स साधुः विद्यातिशयप्रभावेण सङ्घस्य तादृशं कार्य साधयन् गणशोभाकरो भवतीति ॥ सू० ९॥
अथ-शोधिमधिकृत्य चतुर्भङ्गीमाह-चत्तारि पुरिसजाया' इत्यादि ।
सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता, तंजहा गणसोहिकरे णाम एगे नो माणकरे १, एगे माणकरे नो गणसोहिकरे २, एगे गणसोहिकरेवि माणकरेवि ३, एगे नो गणसोहिकरे नो माणकरे ॥ सू० १०॥
छाया-चत्वारः पुरुषजाताः प्रज्ञप्ताः, तद्यथा-गणशोधिकरो नाम एको नो मानकरः, एको मानकरो नो गणशोधिकरः २, एको गणशोधिकरोऽपि मानकरोऽपि ३, एको न गणशोधिकरो नो मानकरः ।। सू. १० ॥
म्य. ३२