________________
२५०
व्यवहारसूत्रे भाष्यम् - 'चत्तारि' चत्वारः चतुःसंख्यकाः 'पुरिसजाया पन्नत्ता' पुरुपजाता पुरुषप्रकाराः प्रज्ञप्ताः, तानेव चतुरः प्रकारान् दर्शयितुमाह-'तंजहा' इत्यादि । 'तंजहा' तद्यथा-'गणसोहिकरे णाम एगे नो माणकरे १' गणशोधिकरो नाम एको नो मानकरः । तत्र-गणस्य शोधिं प्रायश्चित्तदानेन धर्मप्ररूपणया च विशुद्धिं करोतीति गणशोधिकरो न तु मानकरः १ । 'एगे माणकरे नो गणसोहिकरे २' एको मानकरो भवति नो न तु कदाचिदपि गणस्य शोधिकरो भवति २। 'एगे गणसोहिकरेवि माणकरेवि ३' एको गणशोधिकरोऽपि मानकरोऽपि ३ । 'एगे नो गणसोहिकरे नो माणकरे ४' एको नो गणशोधिकरो नो मानकरः ४ । अत्रापि प्रथमतृतीयभङ्गो सफलौ, द्वितीयचतुर्थभङ्गो विफलाविति । अत्रायं दृष्टान्तः
एकस्मिन् नगरे जनपदविहारेण विहरन्त आचार्या अनेकैर्मुनिसङ्घाटकैः सह समवसृताः । तत्र साधुसङ्घाटकाः पृथक् २ भिक्षार्थ ग्रामे प्रविष्टवन्तः, तत्रैकस्मिन् गृहस्थगृहे एकः संघाटको भिक्षार्थ गतः, तत्र तस्य गृहे तदा प्राघुणकादिनिमित्तं बहुलं मोदकानां भोज्यं सम्पादितमासीत् ततस्तस्मै साधुसङ्घाटकाय विपुला मोदकाः प्रतिलाभिताः। तदनन्तरमकस्माद् द्वितीयः सङ्घाटकोऽपि तत्रैव गतः, तेनापि विपुला मोदका लब्धाः । एवं तृतीयश्चतुर्थः सङ्घाटकोऽपि तत्र गतः मोदकांश्च लब्धवान् । आगताः सर्वे उपाश्रये, आचार्येभ्यो भिक्षा प्रदर्शिता। सर्वेषां सदृशभिक्षालाभेन तेषां साधूनां मनसि शङ्का जाता यदेतेषां मोदकानामुद्गमा अशुद्धाः संभवेयुः साधूनागतान् श्रुत्वा साध्वर्थमिमे संपादिता इति लक्ष्यते । इति शङ्किते गत्वा तद्गृहं द्रष्टव्यं स प्रष्टव्यश्च भवेत् भो श्रमणोपासक ! अद्य तव गृहे संखडिर्वर्तते प्राधुणका वा समागताः ?, अथवा साधूनां कृते मोदकाः संपादिताः क्रीता वेति । तत्र च गृहे भोजनवेलायां न कोऽपि प्रवेशं लभते, क एतादृशः साहसिकः साधुर्यों भोजनवेलायां गृहस्थगृहे प्रविशेत् , पृच्छां विना एतदशनादि साधुभिर्न भोक्तव्यम् , एष साधुकल्पः । तत्रैकः ओजस्वी साधुः तद्गृहजनानां परिचितश्च स तस्मिन् गृहेऽनिवारितप्रसरस्तद् दुष्प्रवेशं गृहं प्रविशति । प्रविश्य च तेषां मोदकानामुद्गमं पृच्छाप्रतिपृच्छादिना विज्ञाय शुद्ध एषामुद्गमः, इति निशङ्कितं करोति । आगत्याऽऽचार्यपादमूले निवेदयति न मानं करोति, एष प्रथमः पुरुषजातो योऽमानेन गत्वाऽऽहारस्य शोधिं कृतवान् तेनायं शोधिकरो नो मानकर इति १। एवं द्वितीयः केवलं मानकरः किन्तु शोधिकरणेऽसमर्थः २। तृतीयः शोधिमपि करोति, कृत्वा मानमपि करोति ३। चतुर्थस्तु नोभयकरणसमर्थः ४। इति भङ्गचतुष्टयभावना ॥ सू० १०॥
पूर्व शोधिमाश्रित्य चतुर्भङ्गी प्रोक्ता, तत्र शोधिरिति वा धर्म इति वा एकार्थः, धर्मश्च रूपतो भावतश्चेति द्विधा भवति ततो रूपधर्मोभयमधिकृत्य चतुर्भङ्गीमाह-'चन्तारि' इत्यादि ।