________________
भाष्यम् उ० १० सू० ११-१९
चतुष्प्रकार पुरुषजात निरूपणम् २५१
सूत्रम् - चत्तारि पुरिसजाया पन्नत्ता, तंजहा - रूवं नाम एगे जहइ नो धम्मं १, धम्मं नाम एगे जहइ नो रूवं२, एगे रूवंवि जहइ धम्मंवि जहइ३, एगेनो रूवं जes नो धम्मं जह४ ॥ सू० ११ ॥
छाया - चत्वारः पुरुषजाताः प्रज्ञप्ताः, तद्यथा - रूपं नाम एको जहाति नो धर्मम् १, धर्म नाम एको जहाति नो रूपम् २; एको रूपमपि जहाति, धर्ममपि जहाति ३. एको नो रूपं जहाति नो धर्म जहाति४ || सू० ११ ॥
भाष्यम् - - ' चत्तारि' चत्वारः 'पुरिसजाया' पुरुषजाताः पुरुषप्रकाराः 'पन्नत्ता' प्रज्ञप्ताः, तानेव चतुरो भेदान् दर्शयितुमाह - ' तजहा' इत्यादि, 'तंजहा' तद्यथा 'रूवं नाम एगे जहइ नो धम्मं रूपं नाम एको जहाति नो धर्म जहाति, प्रयोजने समुपस्थिते सति रूपं - स्वकीयं लिङ्गं जहाति परित्यजति, स्वलिङ्गं परित्यज्यापि साधयति कार्यम्, किन्तु धर्मं श्रुतचारित्रलक्षणं कदापि न जहाति, इति प्रथमः १ ।
'धम्मं नाम एगे जहइ नो रूवं' धर्म नाम एको जहाति नो रूपम्, यथा-पार्श्वस्थः इति द्वितीयः २ ।
'एगे वंवि जहइ धम्मंवि जहइ' एको रूपमपि जहाति धर्ममपि जहाति, यथा - एकान्ततो मिथ्यादृष्टिरिति तृतीयः ३ ।
'एगे नो रूवं जहइ नो धम्मं जहइ' एको नो रूपं जहाति नो धर्मं जहाति यथाज्ञानादिरत्नत्रयाऽऽराधकः, इति चतुर्थः ४ ।
अत्र यः सदोरकमुखवस्त्रिकारजोहरणादिरूपो मुनिवेषः स रूपमुच्यते, तथा धर्मो ज्ञान-दर्शन- चारित्रलक्षणः, धर्मशब्देन त्रयाणां रत्नानामेव ग्रहणं भवति ।
अयं भावः - कश्चिद् भावतो ज्ञानादिरत्नत्रय समन्वितोऽशिवादि - मिथ्यादृष्टिराजादि-कारणवशाद् अन्यलिङ्गं गृहिलिङ्ग वा प्रतिपद्यमानस्त्यक्तलिङ्गोऽत्यक्तधर्मश्च कथ्यते । अत्र दृष्टान्तः— आसीत् कस्मिंश्चिन्नगरे कनकदत्तो नाम राजा महामिध्यादृष्टिर्नास्तिकवादी वावदूकः वाचालः पण्डिताभिमानी पण्डितैः सह वादं दत्त्वा तद्बुद्धिमेवोपजीव्य पण्डितान् अपमानयति । अथ कदाचित् कालान्तरे प्रवृद्ध मिथ्यावासनः सर्वज्ञमतोपासकान् साधून् अपवद्रावयितुं प्रवृत्तः । स चाह्य साधून् कथयति - यदि युष्माकं धर्मः सत्यस्तर्हि भवद्भिर्मया सह वादः क्रियताम् । यदा साधवो वादाय समागच्छन्ति तदा किञ्चिद्वादं कृत्वा तानपमान्य स्वदेशादेव निष्कासयति । ततस्तस्यैतादृशमपद्रावणकरणेन सर्वेऽपि साधवः श्रावकाश्च परमोद्विग्ना जाताः, परस्परं विचारणां च कुर्युः - कथमेतस्य राज्ञो वादे पराजयः स्यात् अयं पण्डिताभिमानी दुःखायति साधून् । ततस्तत्रासीत् कश्चित् वादलब्धिसम्पन्नः खेचरलब्धिमांश्च साधुः सः 'संघस्य अपमानो