________________
२५२
व्यवहारमो
भवतीति विचार्य स्वकीयलिङ्गं परित्यज्य अन्यलिङ्गं विधाय वादकरणाय राजसमीपं गतवान् । गत्वा च तेन निवेदितम्-यदेकः साधुर्वादाय समागतः । तच्छृत्वा सञ्जातकुतुहलो राजा वादकरणाय साधुमाहूतवान् , समागतः स साधुर्वादाय । तदनन्तरं द्वयोः साधुराज्ञोर्वादः प्रचलितः, प्रचलिते वादे राजाऽल्पमतित्वात् निरुत्तरो जातः । साधुश्च वादलब्धिसम्पन्नो राजानं मूकबद् वचनरहितं कृतवान् । तदनन्तरं स राजाऽल्पशक्तिमत्त्वात् , अल्पमतिकत्वाच्च स्वपक्षं निर्वाहयितुमसमर्थः क्रोधाग्निसंतप्तः साधोर्वचसाऽपमानकरणे प्रवृत्तः । ततो राजसमीपतोऽपमानं ज्ञात्वा स साधुर्वाददर्पस्फोटनाय राज्ञो मस्तकं पादेनाऽऽक्रम्य वायुरिव आकाशे उत्ष्लुत्य तत्स्थानात् पलायनं कृत्वा स्वस्थानमागतः । एष प्रथमः पुरुषत्यक्तस्वलिङ्गोऽत्यक्तधर्मा १। . द्वितीयस्त्यक्तधर्माऽत्यक्तरूपः, स खलु स्वलिङ्गे सति प्रतिपत्तव्यः, स च पार्श्वस्थादीनामन्यतमो निष्कारणप्रतिसेवी अवधावितुकामो वा ज्ञातव्यः, तस्य भावतस्त्यक्तधर्मत्वात् स्वलिङ्गस्य च धारणात् २ । तृतीय उभयत्यक्तः, रूपं साधुवेषमपि त्यजति श्रुतचारित्ररूपं धर्ममपि त्यजति, सञ्जातैकान्तमिथ्यादृष्टिग़हिलिङ्गे वर्तमानो ज्ञातव्यः ३ । चतुर्थस्तु उभयसहितः साधुवेषमपि न त्यजति स्वधर्ममपि न त्यजति, तत्र स्वलिङ्गेन सदोरकमुखवस्त्रिकारजोहरणादिरूपेण युक्तः धर्मेणज्ञान-दर्शन-चरित्र-लक्षणरत्नत्रयेण युक्तः स्वमतसिद्धः श्रमणः ४ ॥ सू० ११ ॥
अथ-गणमर्यादा धर्म चाधिकृत्य चतुर्भङ्गीमाह-'चत्तारि' इत्यादि. ।
सूत्रम्--चत्तारि पुरिसजाया पन्नत्ता, तंजहा-धम्म नामेगे जहइ नो गणसंठिइं १, गणसंठिई नामेगे जहई नो धम्म २, एगे धम्मपि जहइ गणसंठिइंपि जहइ ३, एगे नो धम्मं जहइ नों गणसंठिई ४ ॥सू० १२॥
छाया—चत्वारः पुरुषजाताः प्रक्षप्ताः, तद्यथा-धर्म नाम एको जहाति नो गणसंस्थितिम् १, गणसंस्थितिं नाम पको जहाति नो धर्मम् २, पको धर्ममपि जहाति गणसंस्थितिमपि जहाति ३, एको नो धर्म जहाति नो गणसंस्थितिम् ४ ॥ सू० १२ ॥
भाष्यम्-'चत्तारि पुरिसजाया पन्नत्ता' चत्वारः पुरुषजाताः-पुरुषप्रकाराः प्रज्ञप्ताः। तानेवाह-'तंजहा' तद्यथा--'धम्म नामेगे जहइ नो गणसंठिई'धर्म नाम एको जहाति नो गणसंस्थितिम् । तत्र गणस्य गच्छस्य संस्थितिः-मर्यादा यथा-तीर्थकरस्येयमाज्ञा-यत् अन्यगच्छीयो वाचनाग्रहणयोग्यः साधुर्भवेत्तदा तस्य तीर्थकराज्ञाप्रमाणेन सूत्रवाचनां दातुं कल्पते इति, किन्तु कश्चिद् गच्छः स्वच्छन्दतया तीर्थकराज्ञाविरुद्धां स्वगच्छस्य मर्यादां कुर्यात्- यद् अन्यगच्छीयं योग्यमपि साधुं न वाचयेदिति । एवमेकः पुरुषो धर्म तीर्थकराज्ञारूपं जहातियोग्यमप्यन्यगच्छीयं साधुं न वाचयति, किन्तु गणसंस्थितिम् अन्यगच्छीयसाधुवाचनादाननिषेधरूपां गणमर्यादां न जहाति, एष प्रथमो भङ्गः १ । द्वितीयो गणसंस्थितिं जहाति योग्यमन्यगच्छीयं साधु वाचयति, तेनाऽन्यगच्छीयस्य वाचनादाननिषेधरूपां मर्यादां त्यक्तवान् किन्तु