________________
भाष्यम् उ १० सू० १३-१४
चतुष्प्रकाराचार्यस्वरूपनिरूपणम् २५३ धर्म जिनाज्ञारूपं यद् योग्यं साधुमन्यगच्छीयं वाचयेदित्येतादृशं धर्म न त्यक्तवान् , एष द्वितीयः २ । तृतीयो धर्म-गणसंस्थितिरूपमुभयमपि जहाति, यथा अयोग्यस्य वाचनादानाद्धर्म त्यक्तवान् , अन्यगच्छीयस्य वाचनादानाद् गणसंस्थितिमपि त्यक्तवान् , एष तृतीयः ३ । चतुर्थः पुनरुभयमपि न त्यजति, यथा-अन्यगच्छीयसाधोः शिष्यम् 'अयं मेधावी प्रवचनोपग्रहकरो भविष्यतीत्यादिगुणयुक्तमुपलभ्य तच्छेदप्रायश्चित्तदानेन स्वशिष्यं कृत्वा वाचयति तेन धर्म तीर्थकराज्ञारूपं न त्यक्तवान् , स्वशिष्यत्वेन कृतस्य वाचनादानाद् अन्यगच्छीयवाचनादाननिषेघरूपां गणमर्यादामपि न त्यक्तवान् , एष चतुर्थः ४ । एतमुभयं-गणसंस्थितिं धर्म चावलम्बमानं महापुरुषं वन्दामहे । इति सूत्रस्पष्टार्थः ॥ सू० १२ ॥
अथ प्रियधर्म-दृढधर्मेतिपदद्वयमधिकृत्य चतुर्भङ्गीमाह-‘चत्तारि' इत्यादि ।
सूत्रम् -चत्तारि पुरिसजाया पन्नत्ता, तंजहा -पियधम्मे णामं एगे नो दढधम्मे १, दढधम्मे नाम एगे, नो पियधम्मे २, एगे पियधम्मेवि. दढधम्मे वि, ३, एगे नो पियधम्मे नो दढधम्मे ४, ॥ सू० १३ ॥
छाया-चत्वारः पुरुषजाताः प्राप्ताः, तद्यथा--प्रियधर्मा नामैको नो दृढधर्मा १, दृढधर्मा नामैको नो प्रियधर्मा २, एकः प्रियधर्माऽपि दृढधर्माऽपि ३, एको नो प्रियधर्मा नो दृढधर्मा ॥ सू० १३ ॥ . भाष्यम्-'चत्तारि' चत्वारः 'पुरिसजाया पन्नत्ता' पुरुषजाताः--पुरुषप्रकाराः प्रज्ञप्ताः, तानेव चतुष्प्रकारान् दर्शयितुमाह-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'पियधम्मे नाम एगे नो दढधम्मे' प्रियधर्मा नामैको नो दृढधर्मा, तत्र- प्रियः-सर्वेभ्योऽपि अभिलाषयोग्यो धर्मो यस्य स प्रियधर्मा, नो दृढधर्मा, धर्मे दृढा-निश्चला मतिर्यस्य स तथा, तादृशो न, सोऽयं प्रथमः १, दढधम्मे णाममेगे नो पियधम्मे २' दृढधर्मा धर्मे दृढा मतिर्भस्य स तथा, तादृशः किन्तु प्रियधर्मा न, धर्मस्तु न तादृशः प्रियः २ । 'एगे प्रियधम्मेवि दढधम्मेवि' एकः प्रियधर्माऽपि दृढधर्माऽपि, स चायं तृतीयः ३ । 'एगे नो पियधम्मे नो दधम्मे ४' एकः पुरुषो न प्रियधर्मा न वा-दृढधर्मा, एष चतुर्थः ४ ॥
अत्रायं भावः-प्रियधर्मा सः यो यस्माद् वाचनादि गृह्णाति तस्य द्रव्यत आहारादिना, भावतो मनःसुप्रणिधानादिना वैयावृत्त्ये उपतिष्ठते न कालान्तरेऽन्यस्योपतिष्ठते, दृढधर्मा तु सर्वेषा मविशेषेण वैयावृत्त्ये उपतिष्ठते सर्वत्र निरतिचारश्चेति, अयं प्रियधर्म-दृढधर्मयोर्विशेषः । प्रथमभङ्गभावना यथा-प्रथमः पुरुषो दशप्रकारकस्य वैयावृत्त्यस्याऽग्रे वक्ष्यमाणस्याऽन्यतमस्मिन् वैयावृत्त्ये प्रियधर्मतया झटित्युद्यमं करोति किन्तु अदृढधर्मतयाऽत्यन्तं न निर्वहति तस्याल्पधृतिवीर्यत्वादिति प्रथमो भङ्गो भवति १ ।