________________
२५४
व्यवहारसूत्रे
द्वितीयस्तु वैयावृत्त्यनिर्वाहकत्वाद् दृढधर्मा यो गृहीतं वैयावृत्त्यं यावत्कालं तदावश्यकता भवेत्तावत्कालपर्यन्तं निर्वाहयति, नो प्रियधर्मा योऽप्रियधर्मतया महता कष्टेन कथं कथमपि प्रथमं वैयावृत्त्यं ग्राह्यते सर्वसाधारणवैयावृत्त्यकरणभावराहित्यात् , स एष द्वितीयभङ्गवर्ती २ । उभयतः कल्याणकरस्तृतीयभङ्गवर्ती ३। चतुर्थस्तु न प्रियधर्मा नापि दृढधर्मा, इत्याकारको गच्छनिराकृतो ज्ञातव्यः ४ ॥ सू० १३ ॥
साम्प्रतमाचार्यपदमधिकृत्य चतुर्मङ्गीमाह-‘चत्तारि' इत्यादि । ।
सूत्रम्-चत्तारि आयरिया पन्नत्ता, तंजहा-पव्यायणायरिए नाम एगे णो उवद्वावणायरिए १, उबढावणायरिए नाम एगे नो पन्वायणायरिए २, एगे पव्वायणायरिएवि उबट्टावणायरिएवि ३, एगे नो पव्वायणायरिए नो उवहावणायरिए ४ धम्मायरिए ४ ॥ सू०१४ ॥
छाया--चत्वार आचार्याः प्रज्ञप्ताः, तद्यथा--प्रव्राजनाचार्यों नामैको नो उपस्थापनाचार्यः १, उपस्थापनाचार्यों नामैको नो प्रव्राजनाचार्यः २, एकः प्रव्राजनाचार्योऽपि उपस्थापनाचार्योऽपि ३, एको नो प्रव्राजनाचार्यों नो उपस्थापनाचार्यो धर्माचार्यः ४ ॥सू०१४ ॥
भाष्यम्-'चत्तारि' चत्वारः आयरिया पन्नत्ता' आचार्याः-गणनायकाः तत्र-आचार्यलक्षगं यथा
आचिनोति च शास्त्रार्थम् , आचारे स्थापयत्यपि ।
स्वयमाचरते यस्मात् , तस्मादाचार्य उच्यते ॥१॥ .. अस्यार्थः- यस्मात् कारणात् शास्त्रार्थ-शास्त्रप्रतिपाद्यं वस्तु-पदार्थजातम् आचिनोतिएकत्रीकरोति-शास्त्रप्रतिपादितपदार्थजातं स्वमनसि अवधारयति, तथा शास्त्रप्रतिपादितसाधुमर्यादापरिभ्रष्टान् साधून् आचारे-शास्त्रप्रतिपादितव्यवहारे स्थापयति, शास्त्रप्रतिपादितपदार्थान् जीवाजीवादिकान्-अवबोधयति, तथा स्वयमाचरति-शास्त्रप्रतिपादितं समितिगुप्त्यात्मकं श्रमणधर्ममाचरति, स्वयं पालयति, तस्मात्कारणात् स आचार्य इति कथ्यते ।
एतादृशा आचार्याश्चतुष्प्रकारकाः प्रज्ञप्ताः । सम्प्रति तानेव चतुरो भेदान् दर्शयितुमाह'तंजहा' इत्यादि, 'तंजहा' तद्यथा--'पन्चायणायरिए नामं एगे नो उवट्ठावणायरिए' प्रव्रजनाचार्यों नामैको न तूपस्थापनाचार्यः, केवलं प्रव्राजयति--सम्यक्त्वोत्पादनेन दीक्षोन्मुखं कृत्वा सामायिकचारित्रं ददाति न तु छेदोपस्थापनीयचारित्रे उपस्थापयति स प्रथमः १ । . 'उवट्ठावणायरिए नाममेगे नो पन्चायणायरिए' उपस्थापनाचार्यों नामैको नो प्रव्राजनाचार्यः, सम्यक्त्वे उपस्थितान् पञ्चमहावते उपस्थापयति न प्रव्राजयति-न दीक्षां ददातीति द्वितीयः २।