________________
भाष्यम् उ० १० सू० १५-१६
चतुर्विधान्तेवासिस्वरूपनिरूपणम् २५५ 'एगे पन्चायणायरिएवि उवट्ठावणायरिएवि ३' एकः प्रव्राजनाचार्योऽपि उपस्थापनाचार्योऽपि, स एव प्रव्राजयत्यपि स एवोपस्थापयत्यपि, इति तृतीयः ३।।
___ 'एगे नो पन्चायणायरिए नो उवहावणायरिए ४, एको नो प्रव्राजनाचार्यों नो न वा उपस्थापनाचार्यः । ननु य उभयविकलः स कथमाचार्यःप्रोच्यते पॉवदुभयचरणहीनत्वात् । तत्राह'धम्मायरिए' धर्माचार्यः, एष नो प्रव्राजयति न वा उपस्थापयति किन्तु केवलं धर्ममेव श्रुतचारित्रलक्षणं ग्राहयति ततो धर्मदेशक्त्वाद् धर्माचार्यः । एष चतुर्थः धर्मोपदेशलब्धिमान् श्रमणो भवतीति ।
___ अयं भावः--प्रथमभङ्गे प्रव्राजनाचार्यः सूचितो भवति १। द्वितीयभङ्गे उपस्थापनाचार्यः सूचितः २ । तृतीयभङ्गे--उभयः सूचितः प्रव्राजनाचार्य उपस्थापनाचार्यश्चेति३, तत्र--प्रथमस्याऽsचार्यस्याऽऽत्मार्थम् परार्थ वा केवलप्रव्राजनाधिकारः, य आत्मनिमित्तं परनिमित्तं वा केवलं प्रवाजयति स प्रथमः प्रव्राजनाचार्यः १ । द्वितीयस्तु प्रबजितं केवलमुपस्थापयति, प्रवजितस्य पुरुषस्योपस्थापनां महाव्रतारोपणरूपां करोति २ । तृतीयस्तु पुनराचार्वः स्वात्मार्थ परार्थ वा प्रव्राजनमुपस्थापनं चोभयमपि करोति ३ । यस्तु-नो प्रव्राजयति न वा महाव्रतेषु उपस्थापयति स चतुर्थः, एष धर्मोपदेशकः केवलं जिनोक्तं धर्म ग्राहयतीति ४ ।
___ अत्रैवं योजना विज्ञेया-एकः कश्चिद् धर्माचार्यः यः प्रथमतया धर्म ग्राहयति १ । द्वितीयः प्रव्राजनाचार्यों यः प्रव्राजयति २ । तृतीयो गुरुरुपस्थापनाचार्यों यो हि प्राणातिपातविरमणादिपञ्चमहावतेषूपस्थापयति ३ । एषु त्रिषु कश्चित् त्रिभिरपि संपन्नो भवति, यथा-कदाचित्स एव धर्मग्राहयति,स एव प्रव्राजयति, स एव उपस्थापयत्यापि महाव्रतेषु कश्चिद् द्वाभ्यामेव संपन्नो भवति, यथा-स एव धर्म ग्राहयति, स एव प्रव्राजयति; अथवा प्रव्राजयति उपस्थापयति च । कश्चिदेकेनैव गुणेन युक्तो भवति, यथा-यो धर्ममेव ग्राहयति, कश्चित् केवलं प्रव्राजयत्येव, कश्चित् केवलमुपस्थापयत्येवेति ॥ सू० १४ ॥
अथ पुनराचार्यप्रकारानेवाधिकृत्य चतुर्भङ्गीमाह-'चत्तारि' इत्यादि ।
सूत्रम्-चत्तारि आयरिया पन्नत्ता, तंजहा--उद्देसणायरिए नाम एगे नो वायणायरिए १, वायणायरिए नामं एगे नो उद्देसणायरिए २, एगे उद्देसणायरिएवि वायणायरिएवि ३, एगे नो उद्देसणायरिए नो वायणायरिए धम्मायरिए ४ ॥ सू० १५ ॥
छाया-चत्वार आचार्याः प्राप्ताः, तद्यथा--उद्देशनाचार्यों नामैको नो वाचना चार्यः १, वाचनाचार्यों नामैको नो उद्देशनाचार्यः २, एक उद्देशनाचार्योऽपि वाचनाचार्यो ऽपि ३, एको नो उद्देशनाचार्यो- नो वाचनाचार्यों धर्माचार्यः ४ ॥ सू० १५ ॥
भाष्यम्-'चत्तारि' चत्वारः 'आयरिया पन्नत्ता' आचार्याः । प्रज्ञप्ताः तानेव चतुरो भेदान् दर्शयति-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'उद्देसणायरिए नाम एगे नो वायणायरिए १' उद्देशनाचार्यों नाम-एको नो वाचनाचार्यः प्रथमः, य उद्दिशति श्रुतोक्कक्रियाकलापादि