________________
व्यवहारसूत्रे शिक्षणतो द्वादशाङ्गादिश्रुताध्ययनयोग्यतां संपादयति किन्तु श्रुतं न वाचयति-तादृशश्रुतस्य वाचनां न ददाति १ । 'वायणायरिए नामेगे नो उद्देसणायरिए २' वाचनाचार्यों नामैको नो उद्देशनाचार्यः, श्रुतवाचनां ददाति नतूदिशति-न श्रुताध्ययनयोग्यतां संपादयति २। एगे उद्देसणायरिएवि वायणायरिएवि ३' एक उद्देशनाचार्योऽपि वाचनाचार्योऽपि--उद्दिशत्यपि वाचयत्यपि ३ । 'एगे नो उद्देसणायरिए-नो वायणायरिए-धम्मायरिए ४' एकस्तु नो उद्देशनाचार्यों न वा वाचनाचार्यः किन्तु धर्माचार्यः ।
अयं भावः-तत्रैकः प्रथमः श्रुतमुद्दिशति-श्रुतगुणान् प्रदर्शयति परन्तु न वाचयति, यथामङ्गलबुद्धया प्रथमत आचार्य उद्दिशति १, तदनन्तरमुपाध्यायो वाचयति २। अत्राचार्यः प्रथमभङ्गवर्ती १, उपाध्यायस्तु, द्वितीयभगवर्ती, आचार्येणोद्दिष्टमुपाध्यायो वाचयति २ । य एवोदिशति स एव वाचयति, इति तृतीयो भङ्गः ३ । यो नो उदिशति श्रुतं न वा वाचयति, इत्येषश्चतुर्थः ४ । एष धर्माचार्यो धर्मोपदेशकत्वात्, स पुनः श्रुताध्येता गृहस्थो वा श्रमणो वा ज्ञातव्यः । सू० १५ ॥
अथान्तेवासिनोऽधिकृत्य चतुर्भङ्गीमाह-'चत्तारि' इत्यादि ।
सूत्रम्-धम्मायरियस्स चत्तारि अन्तेवासी पन्नत्ता तंजहा-उद्देसणंतेवासी नाम एगे नो वायणंतेवासी १, वायणंतेवासी नामं एगे नो उदेसणंतेवासी २, एगे उद्देसणंतेवासीवि वायणंतेवासी वि ३, एगे नो उद्देसणंतेवासी नो वायणं तेबासी-धम्मते वांसी ४॥ सू० १६ ॥
छाया-धर्माचार्यस्य चत्वारोऽन्तेवासिनः प्रज्ञप्ताः, तद्यथा-उद्देशनान्तेवासी नामैको नो वाचनान्तेवासी १, वाचनान्तेवासी नामैको नो उद्देशनान्तेवासी २, एक उद्देशनान्तेवासी अपि वाचनान्तेवासी अपि ३, एको नो उद्देशनान्तेवासी नो वाचनान्तेवासी धर्मान्तेवासी ४ ॥सू० १६ ॥
भाष्यम्---'धम्मायरियस्स चत्तारि अंतेवासी पन्नत्ता' धर्माचार्यस्य चत्वारोऽन्तेवासिनः-शिष्याः प्रज्ञप्ताः, तत्र-अन्तं नाम-अन्तिकमध्यास आसन्नं समीपं चेत्येकोऽर्थः, तत्पु. नरन्तः-समीपे वसति-शिक्षाग्रहणाय गुरुसमीपं वसति सोऽन्तेवासी आचार्य प्रतीत्यैव श्रुतग्रहण. नियमात् । तथा चाऽऽचार्यस्याऽन्ते-समीपं वसतीत्येवंशीलो यः सोऽन्तेवासी, ते चान्तेवासिन आचार्यवदेव चतुष्प्रकारका भवन्ति । आचार्यस्य चतुर्विधत्वेन तदन्तेवासिनामपि चतुर्विधत्वसंभवात् , तानेव चतुरो भेदान् दर्शयति-तंजहा' इत्यादि, 'तंजहा' तद्यथा-'उदेसणंतेवासो नाम एगे नो वायणंतेवासी' उद्देशनान्तेवासी नाम-एको नो वाचनान्तेवामी, तत्र-उद्देशनमुद्देशः सूत्रोकशिक्षेत्यर्थः । केवलमुद्देशमेवाधिकृत्य योऽन्तेवासी स उद्देशनान्तेवासी कथ्यते. एतादृश एकः किन्तु नो वाचनान्तेवासी वाचनामधिकृत्य नो अन्तेवासी वाचनाग्रहणबुद्धयाऽन्तेवासी नेति प्रथमः १।