________________
भाष्यम् उ० १० सु० १७-१८ त्रिविधस्थविरभूमि-शैक्षभूमिनिरूपणम् २५७ 'वायणंतेवासी नाम एगे नो उद्देसणंतेवासी २, वाचनान्तेवासी नाम-एको न तु उद्देशनान्तेवासी, यः केवलं वाचनामेव गृह्णाति न तूद्देशमिति द्वितीयः २ । 'एगे उद्देसणंतेवासीवि वायणंतेवासीवि' एक उद्देशनान्तेवासी-अपि, वाचनान्तेवासी-अपि, य उभयमपि गृह्णातिउद्देशमपि गृह्णाति तथा श्रुतस्य वाचनामपि गृह्णाति स तृतीयः ३ । 'एगे नो उद्देसणंतेवासी नो वायणंतेवासी धम्मंतेवासी ४' एको नो उद्देशं गृह्णाति, न वा वाचनामेव श्रुतस्य गृह्णाति किन्तु केवलं धर्मश्रवणमात्रमधिकृत्याऽऽचार्यान्तिके वसति स धर्मान्तेवासीति चतुर्थः ४।।
अयं भावः– यो यस्यान्ते-उद्देशनमेवाधिकृत्य वसति स तस्याचार्यस्योदेशनान्तेवासी प्रथमः । यो यस्याचार्यस्य अन्तिके केवलं वाचनामेवाधिकृत्य वसति स तस्य वाचनान्तेवासी द्वितीयः २ । यस्तु यस्याऽऽचार्यस्यान्तिके उद्देशनं वाचनां चेत्युभयमपि अधिकृत्य वसति, स तस्याचार्यस्योभयान्तेवासी, इति तृतीयः ३ । यस्तु यस्याचार्यस्य समीपे नो उद्देशनं नाऽपि वाचनामधिकृत्य वसति, किन्तु-धर्मश्रवणमात्रमधिकृत्यैव वसति, स तं प्रति उभयविकलो धर्मान्तेवासीति चतुर्थः ४ ।
अत्रैवं योजना कर्त्तव्या, तथाहि-प्रथमं कश्चित् धर्मश्रोतृत्वेन धर्मान्तेवासी १। कश्चित् श्रुतोक्तशिक्षाग्रा हित्वेन उद्देशान्तेवासी २ । कश्चित् श्रुतवाचनाग्राहित्वेन वाचनान्तेवासी ३ । कश्चिद् उद्देशनं वाचनां चेत्युभयस्यापि ग्राहित्वेन उभयान्तेवासीति चत्वारोऽन्तेवासिनो भवन्तीति ४ ।
___ अत्र-धर्मादिमिश्रणेनापि पञ्चविधा अन्तेवासिनो भवन्ति, तथाहि-कश्चिद् धमोंदेशनवाचनेतित्रिभिः समन्वितो भवति १ । कश्चिद्धर्मवाचनाभ्यां समन्वितो भवति २ । कश्चिद् धर्मोद्देशनाभ्यां समन्वितो भवति ३ । कश्चिद्वाचनोद्देशनाभ्यां युक्तो भवति ४, कश्चिद्- एकेनैव युक्तो भवति धर्मेण वा उद्देशनेन वा-वाचनया वाऽन्तेवासी भवतीति ॥ सू १६ ॥
पूर्वमन्तेवासिनां चतुर्भङ्गी प्ररूपिता, अन्तेवासिनश्च स्थविराणां भवन्तीति स्थविरवक्तव्यतामाह-'तओ थेरभूमीओ' इत्यादि ।
सूत्रम्-'तो थेरभूमीओ पन्नत्ताओ, तंजहा- जाइथेरे सुयथेरे परियायथेरे य। सहिवासजाए जाइथेरे ठाणसमवायधरे सुयथेरे २, वीसवासपरियाए परियायथेरे ३,॥सू०१७।।
___ छाया--तिनः स्थविरभूमयः प्रज्ञप्ताः, तद्यथा-जातिस्थविरः १ श्रुतस्थविरः, २ पर्यायस्थविरश्च ३। षष्टिवर्षजातो जातिस्थविरः १, स्थानसमवायधरः श्रुतस्थविरः २, विंशतिवर्षपर्यायः पर्यायस्थविरः ४ ।। सू० १७ ॥
व्य, ३३