Book Title: Agam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
व्यवहारसूत्र न कमपि कार्य साधयति मानमपि न करोति । एतौ द्वौ द्वितीयचतुर्थभङ्गोक्तौ पुरुषौ स्तः । तत्र राजा च प्रथमतृतीयभङ्गवत्तिषुरुषाभ्यां यथायोगं वृत्तिं दत्तवान् , द्वितीयचतुर्थभङ्गवर्तिपुरुषाभ्यां न कामपि वृत्तिं दत्तवान् । इति दृष्टान्तः ।
एवमेव पुरुषचतुष्टयदृष्टान्तेन कोऽपि साधुराचार्यस्यायं करोति न च मानम्, स चेत्थमाचार्यवैयावृत्त्यादि भेदैर्दशप्रकारं वैयावृत्त्यं संपादयति, अथवा-आचार्यस्य समागच्छतोऽभ्युस्थानम् १, आसनादिदानद् २ कृतिकर्म ३, विश्रामणा ४, उच्चारपात्रकस्य-प्रस्रवणपात्रकस्य श्लेष्मपात्रकस्य चोपनयनम् ७, संस्तारकस्य करणम् ८, आचार्यसमीपे आसनकरणम् ९ इत्यादिप्रयोजनभेदतोऽनेकप्रकारका अर्था भवन्ति, तत्करः अर्थकरः प्रोच्यते १ । द्वितीयो भवति मानकरः, यथा-समागच्छत आचार्यस्याऽभ्युत्थानं न करोति यदि वा-'आचार्येण न मेऽभ्यर्थना कृता न वा मम प्रशंसा कृता' . इत्यादिरूपेण मानं करोति न किञ्चित्कार्य संपादयतीति मानकरो नार्थकरः २ । तृतीय आचार्यस्याऽर्थकरोऽपि मानकरोऽपि आचार्यस्य वैयावृत्त्यादि करोति किन्तु मानवशादभ्युत्थानादि न करोति ३ । चतुर्थो नो अर्थकरो नो वा मानकरः अयमाचार्यस्य द्वयमपि न करोति । तत्र द्वितीयचतुर्थो नो कर्मनिर्जराया लाभवन्तौ भवतः, न तयोराचार्याः सूत्रमर्थमुभयं वा प्रयच्छन्ति । प्रथमतृतीययोस्तु सूत्रार्थतदुभयस्य निर्जरायाश्च लाभो भवति अर्थकारितया आचार्यस्य मनःप्रसादकत्वात् , । तस्मात् प्रथमतृतीयाभ्यामिव वर्तितव्यम् न तु कदाचिदपि द्वितीयचतुर्थाभ्यामिवेति । तदेवं चत्वारः पुरुषजाताः प्रदर्शिताः ॥ सू० ६ ॥
पूर्वमाचार्यस्याऽर्थकरमानकरपुरुषजातचतुर्भङ्गी प्रदर्शिता, सम्प्रति गणमधिकृत्य चतुर्भङ्गीमाह'चचारि' इत्यादि ।
सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता तंजहा-गणकरे नाम एगे नो माणकरे १, माणकरे नाम एगे नो गणटकरे २, एगे गणहकरेबि माणकरेवि ३, एगे नो गणटकरे नो माणकरे ॥४॥ सू० ७॥
छाया चत्वारः पुरुषजाताः प्रक्षप्ताः तद्यथा--गणार्थकरो नाम एको, नो मानकरः १, मानकरो नाम एको नो, गणार्थकरः २, एको गणार्थकरोऽपि मानकरोऽपि ३, एको नो गणार्थकरो नो मानकरः ४॥ सू० ७॥
भाष्यम् - 'चत्तारि' चत्वारः-चतुष्प्रकाराः 'पुरिसजाया' पुरुषजाताः-पुरुषप्रकाराः 'पन्नत्ता' प्रज्ञप्ताः । तानेव चतुरो भेदान् दर्शयति-तंजहा' इत्यादि । 'तंजहा' तद्यथा-'गणकरे' णाम एगे नो माणकरे' गणार्थकरो नाम–एको नो मानकरः तत्र-गणो नाम गच्छः-समुदायः तस्य गणस्य योऽर्थः-कार्यम् तस्य गणकार्यस्य करः-संपादको यः स गणार्थकरः गच्छकार्यसंपादक इत्यर्थः, नो मानकरः गणस्य कार्य कृत्वाऽपि मानमभिमानं न करोति, एतादृशः
Loading... Page Navigation 1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346