________________
माध्यम् उ० १० सू० ५
आगमादिपञ्चविधव्यवहारनिरूपणम् २४३ जीए' यथ यथा आगमः १, श्रुतम् २, आज्ञा ३, धारणा ४, जीतम् ५ 'तहा तहा ववहारं पट्ट वेज्जा' आगमव्यवहारिणोऽभावे तथा तथा तेन तेन श्रुतव्यवहार्यादिप्रकारेण व्यवहार प्रस्थापयेत् । 'से किमाहु भंत ?' अथ किमेवमाहुर्भदन्त ! हे भदन्त ! कथमेवं कथयसि यत् प्रथममागमव्यवहारिणैव व्यवहार प्रस्थापयेदित्यागमस्य प्राथम्यं ददाति ? तत्राह-'आगमबलिया समणा णिगंथा' आगमबलिकाः आगम एव बलं येषां ते आगमबलिकाः आगमाधारवन्त एव श्रमणा निम्रथा भवन्ति, आगमबलेनैव श्रमणा निर्ग्रन्था आगमेनैव व्यवहरन्ति, आगमस्य तीर्थकरैः स्वमुखाँच्चरितत्वादिति । 'इच्चेयं पंचविहं ववहारं' इत्येतं-पूर्वप्रदर्शितं पञ्चविधं पञ्चप्रकारक व्यवहारम् ; 'जया जया जहि जहि' यदा यदा यत्र यत्र ये ये आगमादिव्यवहाणिो भवन्ति 'तया तया तर्हि तर्हि' तदा गदा तत्र तत्र-तेषां तेषां समीपे, 'अणिस्सिओवस्सियं' अनिश्रितोपश्रितं यथा स्यात्तथा कस्यापि निश्रां वर्जयित्वा-यथा अमुकस्य निश्रयाऽऽलोचनां करोति तदा-स न्यू प्रायश्चित्तं दास्यतीत्येवंरूपां निश्रां विवर्ण्य 'ववहरमाणे समणे णिग्गंथे आणाए आराहए भवई' व्यवहरन्-व्यवहारं कुर्वन् श्रमणो निम्रन्थः आज्ञायाः-तीर्थकराज्ञाया आराधको भवतीति ।। ___अत्राऽऽगमादिपञ्चसु व्यवहारिषु क्रमेण व्यवहारः प्रस्थापयितव्यः, यदि व्युत्क्रमेण व्यवहरति तदा चत्वारो गुरुमासाः प्रायश्चित्तं भवति, अयं भावः-आगमे विद्यमाने श्रुतादिभिर्व्यवहारं करोति । श्रुते विद्यमाने आज्ञादिभिर्व्यवहरति । आज्ञाव्यवहारे विद्यमाने धारणाव्यवहारं प्रस्थापयति । धार गायां विद्यमानायां जीतेन व्यवहारं प्रस्थापयति । इत्येवं व्युत्क्रमेण व्यवहारप्रस्थापने साधुश्चतुर्गुरुकादिप्रायश्चित्तभाग् भवतीति विज्ञेयम् । प्रथमं मुख्यतया आगमव्यवहारिसमीपे एवालोचना कर्त्तव्या भवेत् । आगमव्यवहारिणोऽपि षइविधा भवन्ति तत्रापि क्रमेणैव व्यवहारः प्रस्थापनीयः, यथा प्रथमं केवलज्ञानिसमीपे आलोचना कर्त्तव्या, स चालोचकस्य सर्वमतिचारं जानाति, न तस्य समीपे माया कत्तुं शक्यते १, तदभावे मनःपर्यवज्ञानिपाचे २, तदभावेअवधिज्ञानिपश्र्वे ३, तदभावे चतुर्दशपूर्वधरसमीपे ४, तदभावे दशपूर्वधरसमीपे ५, तदभावे नवपूर्वधरसमीपे ६, आलोचना ग्रहीतव्या । पूर्वपूर्वाऽभावे उत्तरोत्तरो ग्राह्यः । एवमग्रे श्रुतव्यवहारादिविषयेऽपि मर्यादा बोध्या ।
ननु यस्मिन् काले भगवन्तो गणधराः 'ववहारे पंचविहे पन्नत्ते' इत्यादि सूत्रं निबद्धवन्तस्तस्मिन् काले बाधितरूपेणाऽऽगम आसीदेव ततः कस्मात् कारणात् आज्ञादयो जीतान्ता व्यवहाराः सूत्रे तैर्निबद्धाः, आगमादेव सर्वव्यवहारसंभवात्, न हि सूर्यप्रकाशसत्तायां चाक्षुष्ककार्यसंपादनाय प्रदीपादीनामल्पप्रकाशानां संग्रहो :भवति ! अत्राह-तेऽवधिज्ञानादिना ज्ञातवन्तः, यत् स एतादृशः कालः समागमिष्यति यस्मिन् काले सूत्रमनागतविषयं भविष्यति आगमस्य