________________
१४२
व्यवहार प्रक्रियारूपं तेन यो व्यवहरति स जीतव्यवहारी, यः पूर्वाचार्य परम्परामनुसृत्य प्रायश्चित्तादि ददाति स जीतव्यवहारी कथ्यते ५ ।
___ एषु पञ्चसु मध्ये एकैकाभावे उत्तरोत्तरेणाऽऽलोचना ग्रहीतव्येति प्रदर्शयति-'जत्थेव तत्थ' इत्यादि, 'जत्थेव तत्थ आगमे सिया आगमेण ववहारं पट्टवेज्जा' यत्रैव यत्र स्थाने आगमः आगमव्यवहारी भवेत् तत्र स्थानविशेषे आगमेन-आगमव्यवहारिणा व्यवहारं प्रस्थापयेत्, तत्र व्यवहारनिर्णयमागमव्यवहारिणैव कारयेत्-आगमव्यवहारिपार्श्व एव आलोचनां गृह्णीया. दिति भावः । आगमव्यवहारिणो जिनेन्द्राणामाज्ञयैव यथावस्थितं व्यवहारं व्यवहरन्ति किन्तुनाधिकं न न्यूनम् , तेषां रागद्वेषविनिर्मुक्तत्वात् । उक्तञ्च
"ते आगमववहारी, हवंति जे रागदोसनिम्मुक्का ।
जिणवरआणाए जे, ववहारं ववहरंति जहतत्थं" ॥१॥ छाया-ते आगमव्यवहारिणो, भवन्ति ये रागद्वेषनिर्मुक्ताः।
जिनवराज्ञया ये व्यवहारं व्यवहरन्ति यथातथ्यम् । १॥ इति । अतः प्रथमं तेषां पार्वे व्यवहारं प्रस्थापयेदिति । 'नो तत्थ आगमे सिया' अथ च यत्र नो आगमः-आगमव्यवहारी न स्यात् न भवेत् तदा 'जहा से तत्थ मुए सिया' अथ यथा तत्र श्रतम्-श्रतव्यवहारी भवेत् तहा 'सुएणं ववहारं पट्टवेज्जा' श्रुतेन श्रुतव्यवहारिणा व्यवहारं प्रस्थापयेत् श्रुतव्यवहारितः प्रायश्चित्तं गृह्णीयादित्यर्थः । 'नो से तत्थ सुए सिया' अथ नो तत्र श्रुतम्-श्रुतव्यवहारी स्यात् किन्तु 'जहा से तत्थ आणा सिया' यथा तत्राज्ञा स्यात् यदि श्रुतव्यवहारी न भवेत् किन्तु-आज्ञाव्यवहारी भवेत् तदा 'आणाए ववहारं पट्टवेज्जा' आज्ञया आज्ञाव्यवहारिणा व्यवहारं प्रस्थापयेत् आज्ञाव्यव. हारिद्वारा प्रायश्चित्तं गृह्णीयादित्यर्थः । 'नो से तत्थ आणा सिया जहा से तत्थ धारणा सिया' अथ नो तत्राऽऽज्ञा स्यात् अथ यथा तत्र धारणा स्यात् , यदि कदाचित् यत्राज्ञाव्यवहारी न भवेत् किन्तु धारणाव्यवहारी भवेत् तदा 'धारणाए ववहारं पट्टवेज्जा' धारणया-धारणाव्यवहारिणा व्यवहारं प्रस्थापयेत् । 'नो से तत्थ धारणा सिया जहा से तत्थ जीए सिया जीएणं ववहारं पट्टवेज्जा' अथ नो तत्र धारणा-धारणाव्यवहारी स्यात् अथ यथा तत्र जीतं-जीतव्यवहारी स्यात् तदा जीतेन जीतव्यवहारिणा व्यवहारं प्रस्थापयेत् , धारणाव्यवहारिणोऽभावे जीतव्यवहारिद्वारेणैव आलोचनाव्यवहारं कुर्यादित्यर्थः । 'एएहिं पंचहि ववहारेहि ववहारं पट्टवेज्जा' एतैः- उपरिदर्शितैः पञ्चभिर्व्यवहारिभिर्व्यवहारं प्रस्थापयेत् कुर्यात् , 'तंजहा' तद्यथा-'आगमेणं सुएणं आणाए धारणाए जीएणं' आगमेन १, श्रुतेन २ आज्ञया ३, धारणया ४, जीतेन ५ । 'जहा जहा आगमे १, सुए २, आणा ३, धारणा,