________________
भाष्यम् उ० १० सू०-५
आगमादिपञ्चविधव्यवहारनिरूपणम् २४१ सिया जीएणं ववहारं पट्टवेज्जा, एएहिं पंचहि ववहारेहिं ववहारं पट्टवेज्जा तंजहा-आगमेणं सुएणं आणाए धारणाए जीएणं । जहा जहा आगमे सुए आणा धारणा जीए तहा तहा ववहारं पट्ठवेज्जा । से किमाहु भंते ? आगमबलिया समणा णिग्गांथा । इच्चेयं पंचविहं ववहारं जया जया जहिं जहिं तया तया तहिं तहिं अणिस्सिओवस्सियं बवहारं ववहारेमाणे समणे णिग्गंथे आणाए आराहए भवइ ॥ सू० ५॥
छाया-पञ्चविधो व्यवहारः प्रज्ञप्तः तद्यथा-आगमः १, श्रुतम् २, आज्ञा ३, धारणा ४. जीतम् ५, यत्रैव तत्रागमः स्यात् । आगमेन व्यवहारं प्रस्थापयेत् १, नो अथ तत्रागमः स्थात् यथा अथ तत्र श्रुतं स्यात् श्रुतेन व्यवहारं प्रस्थापयेत् २, नो अथ तत्र श्रुतं स्यात् यथा अथ तत्राशा स्यात् आज्ञया व्यवहारं प्रस्थापयेत् ३, नो तत्राशा स्यात् यथा अथ तत्र धारणा स्यात् धारणया व्यवहारं प्रस्थापयेत् ४, नो अथ तत्र धारणा स्यात् यथा अथ तत्र जीतं स्यात् जोतेन व्यवहारं प्रस्थापयेत् ५, । एभिः पञ्चभिर्व्यवहारैर्व्यवहारं प्रस्थापयेत् तद्यथा-आगमेन श्रतेन, आशया, धारणया जीतेन, यथा यथा आगमः श्रतम् आक्षा धारणा जीतम् तथा तथा व्यवहारं प्रस्थापयेत् । अथ किमाहुर्भदन्त !, आगमबलिकाः श्रमणा निर्ग्रन्थाः। इत्येतं पञ्चविधं व्यवहारम् यदा यदा यत्र यत्र तदा तदा तत्र तत्र अनिश्रितोपश्रितं व्यवहारं व्यवहरन् श्रमणो निर्ग्रन्थः आशया आराधको भवति ॥सू०५॥
भाष्यम् - 'पंचविहे ववहारे पन्नत्ते' पञ्चविधः पञ्चप्रकारको व्यवहारः, तत्र-व्यवहरतीति व्यवहारः प्रज्ञप्तः-कथितः, तमेव पञ्चविधत्वं दर्शयितुमाह-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'आगमे' आगमः, ताऽऽगच्छति प्राप्तो भवति मोक्षरूपोऽर्थोऽनेन, ज्ञानदर्शनचारित्ररूपो वाऽर्थे ऽनेन इत्यागमः द्वादशाङ्गगणिपिटकरूपः साधूनां प्रवृत्तिनिवृत्तिरूपो व्यवहार इत्यर्थः, अत्र गुणगुणिनोरभेदोपचाराद् गुणेन गुणी गृह्यते तेन आगम इति आगमव्यवहारी स च केवलज्ञानी १, मनःपर्यवज्ञानी २, अवधिज्ञानी ३, चतुर्दशपूर्वधरः ४, दशपूर्वधरः ५, नवपूर्वधरश्चेति षडेते आगमव्यवहारिणो भवन्ति ६ ।
एतेषु षट्सु उत्तरोत्तरं ग्राह्यः 'सुए' श्रुतम्-श्रुतव्यवहारी आचारप्रकल्पनिशीथादिसूत्रधारी, सत्र श्रुतशब्देन नवा दिपूर्वाणामपि ग्रहणं भवति, तेन नवपूर्वादिधरा अपि सूत्रव्यवहारिणः कथ्य ते २ । 'आणा' आज्ञा-आज्ञाव्यवहारी, यथा-केचिद्गीतार्था आचार्यादयः दूरदेशस्थिता जाबलक्षीणत्वेन विहृत्यागन्तुं न समर्था भवेयुस्तेषामाज्ञया, तीर्थकराज्ञया शास्त्रद्वारा वा व्यवह ति प्रायश्चित्तादि ददाति स आज्ञाव्यवहारीति ३ । 'धारणा' धारणाव्यवहारी, यो धारणय व्यवहरति स धारणाव्यवहारी, धारणा नाम गीतार्थगुर्वादिभिः कस्मैचिद्दत्ता शोध दृष्ट्वा तद्दत्ता शोधि श्रुत्वा वा धार्यते सा धारणा कथ्यते तया व्यवहा धारणाव्यवहारी प्रोच्यते, यथा-यः कश्चिद् गीतार्थव्यवहारी कस्मैचित् प्रायश्चित्तादि ददाति तच्त्वा -तदुक्तं धारयित्वा यः प्रायश्चितं ददाति स धारणाव्यहारीति कथ्यते ४ । 'जीए' जीतम्-गुरुपरम्परागत- म्य, ३१