Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्रमशिस्त्र णं इमा अट्ठविहा गोलच्छाया पण्णत्ता तं जहा-गोलच्छाया १८, अवड्ढ मोलच्छाया १९, गोलच्छाया २०, अवड्ढगोलच्छाया २१, गोलावलिच्छाया २२, अवड्ढगोलावलिच्छाया २३, गोलपुंजच्छाया २४, अवड्ढगोल पुंजच्छाया २५, ॥सू० ४॥
नवमं पाहुडं समत्तं ॥९॥ छाया-वयं पुनरेवं वदामः सूर्यः सातिरेकैकोनषष्टिपौरुषी छायां निर्वतयति । तावत् अपार्धपौरूषी स्खल छाया दिवसस्य किं गते वा शेषे वा ? तावत् त्रिभागे गते वा शेषेवा ३॥ तावत् पौरुषी खलु छाया दिवस्य किं गते वा शेषे वा ? तावत् चतुर्भागे गते वा शेषे वा १. तावत् द्वयर्धपौरूषी खलु छाया दिवसस्य किं गते वा शेषे वा १ तावत् पञ्चभागे गते वा शेषे वा ?। एवम् अर्धपौरुषी क्षिप्त्वा २ पृच्छा । दिवसस्य भागं क्षिप्त्वाव्याकरण यावत् तावत् अपार्धकोनषष्टिपौरूषी खलु छाया दिवसस्य किं गते वा शेषे वा । तावत् एकोनविंशतिशतभागे गते वा शेषे वा ?। तावत् एकोनषष्टिपौरूषी खलु छाया दिवसस्य कि गते वा शेषे वा ? द्वाविंशतिसहस्रभागे गते वा शेषे वा । तावत् सातिरेकैकोनषष्टिपौरुषी खलु छाया दिवसस्य किं गते वा शेषे वा ? तावत् नास्ति किञ्चिद्गते वा शेषे वा । तत्र खलु इमा पञ्चविंशतिनिविधा छाया प्रज्ञप्ता तद्यथा स्तम्भच्छाया१, रज्जुच्छाया २, प्राकारच्छाया ३, प्रासादच्छाया ४. उच्चत्वच्छाया५, अनुलोमच्छाया ६, प्रतिलोमच्छाया ७, आरोपिता छाया ८ उच्चारोपिता छाया ९. समा प्रतिहताछाया १०, कोलच्छाया ११, पान्थच्छाया १२, पुरत उग्रा पृष्ठतउदग्रा १३, पौरस्त्यकाष्ठभागोपगता छ'या १४ । पाश्चात्यकाष्ठभागोपगता १५, छायानुवादिनी १६, काष्ठानुवादिनी १७, छायातिकम्पदीर्घा शकटच्छाया, तत्र खलु इमा अष्टविधा गोलच्छाया प्रक्षप्ता, तद्यथा-गोलच्छाया१८, अपार्धगोलच्छाया १९, गोलच्छाया २०, अपाधगोलच्छाया २१, गोलावलिच्छाया २२, अपार्धगोलावलिच्छाया २३, गोलपुञ्जच्छाया २४, अपार्धगोलपुञ्जच्छाया २५ ॥ सू०४
नवमं प्राभृतं समाप्तम् ।।१।। व्याख्या-'वयं पुण' वयं पुनः ‘एवं' एवम्- वक्ष्यमाणप्रकारेण 'क्यामो' वदामः कथयामः । तदेवाह-'सरिए' इत्यादि 'सरिए' सूर्यः 'साइरेगअउणटिपोरिसिं' सातिरेकैकोनषष्टिपौरुषीम्, उदयसमयेऽस्तसमये च 'छायं' छायां निव्वत्तेई' निवर्तयति । एतदेव स्पष्टयति -'ता अवड्ढ' इत्यादिः 'ता' तावत् 'अवड्ढपोरसी णं छाया' अपार्धपौरुषी खलु छाया, अपगतमद्धं यस्याः सा अपार्धा सा चासौ पौरुषीचेति-अपार्धपौरुषी छाया अर्धपौरुषी छायेत्यर्थः पुरुषस्य उपलक्षणात् प्रकाश्यस्य सर्वस्यापि वस्तुन इत्यग्रेऽपि विज्ञेयम्, अपार्धपौरुषी अर्धपुरुषप्रमाणेत्यर्थः छाया 'दिवसस्स' दिवसस्य 'किं' किम् कतमें भागे 'गए वा' गते वा व्यतीतेवा कतितमे 'सेसे वा' शेषे वा अवशिष्टे वा भागे भवति, अपार्धपौरुषी छाया दिवसस्य कतितमे भागे व्यतीते कतितमे वा भागेऽवशिष्टे भवतीति प्रश्नः