Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 664
________________ चवक्षप्तिप्रकाशिकाटीका प्रा.१८ सू.९ चन्द्रविमानवाहक देवानां संख्या ६४३ छाया तावत् चन्द्रविमानं खलु भदन्त ! कति देवसाहस्यः परिवहन्ति ? षोडश देवसाहस्यः परिवहन्ति, तद्यथा पौरस्त्ये खलु सिंहरूपधारिणां चतस्रो देवसाहस्यः परिवहन्ति, दक्षिणे खलु गजरूपधारिणां चतस्रो देवसाहत्यः परिवहन्ति, पाश्चात्ये खलु वृषभरूपधारिणां चतस्रो देवसाहस्व्यः परिवहन्ति, उत्तरे खलु तुरग रूपधारिणां चतस्रो देवसाहस्त्र्यः परिवहन्ति । एवं सूर्यविमानमपि । तावत् ग्रह विमानं खलु भदन्त ? कति देवसाहस्यः परिवहन्ति ? तावत् अष्ट देवसाहस्यः परिवहन्ति, तं जहा-पौरस्त्ये खलु सिंहरूपधारिणां द्वे देवसाहस्थ्यौ परिवहतः, एवं यावत् उत्तरे खल तुरगरूपधारिणां द्वे देवसाहत्यौ परिवहतः। तावत नक्षत्रविमानं खल भदन्त ! कति देवसाहत्यः परिवहन्ति ? तावत् चतस्रो देवसाहत्यः परिवहन्ति, तद्यथा-पौरस्त्ये खलु सिंहरूपधारिणाम् एका देवसाहव्यः परिवहति, एवं जाव उत्तरे खलु तुरगरूपधारिणां एका देवसाहस्री परिवहति । तावत् ताराविमान खलु भदन्त ! कति देवसाहस्त्र्यः परिवहन्ति ? तावत् वे देवसाहस्यौ परिवहतः तद्यथा-पौरस्त्ये खलु सिंहरूपधारिणां देवानां पञ्च शतानि परिवहन्ति, एवं यावत् उत्तरे खलु तुरग रूपधारिणां देवानां पञ्च शतानि परिवहन्ति ॥ सू० ९॥ ____व्याख्या--'चंदविमाणे णं भंते' इत्यादि प्रश्नसूत्रं सुगमम् । भगवानाह 'सोलसदेवसाहस्सीओ परिवहंति' चन्द्रविमानं षोडशसहस्रदेवा परिवहन्ति चतुर्दिक्षु तदेवाह 'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'पुरस्थिमेणं सीहरूपधारीणं चत्तारि देवसाहस्सीओ परिवहंति' पूर्वभागे चतुः सहस्रदेवाः सिंहरूपधारिणः परिवहन्ति । एवं दक्षिणे गजरूप धारिणश्चतुःसहस्रदेवाः, पश्चिमे वृषभरूपधारिणश्चतुःसहस्रदेवाः, उत्तरे तुरगरूधारिणः श्चतुःसहस्रदेवाः, एवं षोडश सहस्रदेवाश्चन्द्रविमानं परिवहन्तीति । ‘एवं सूरियविमाणंपि' चन्द्रविमानवदेव सूर्यक्मिानमपि तेनैव रूपेण तादृश रूपधारिण एव षोडशहस्र देवाश्चतुदिक्षु परिवहन्ति । ग्रहविमानं पृच्छा-'ता अद्विसाहस्सीओ परिवहति' ग्रहविमानमष्ट सहस्त्रदेवाः, प्रत्येकं दिशि द्विद्विसहस्त्रसंख्यकाः पूर्वोक्तसदृशरूपधारिणः परिवहन्ति । नक्षत्र विमानं पृच्छा-'ता चत्तारि देबसाहस्सीओ' नक्षत्रविमानं प्रत्येकं दिशि एकैकसहस्त्रत्वेन चतुः सहस्त्रदेवाः पर्वोक्तरूपधारिणः पूर्वप्रदर्शितरीत्यैव परिवहन्ति । ताराविमानं पृच्छा-'ता दो देवसाहस्सीओ' ताराविमानं प्रत्येकं दिशि पञ्चशतपञ्चशतत्वेन द्विसहस्रदेवाः पूर्ववदेव परिवहन्ति । चन्द्रादि विमानवाहकदेवानां संख्या प्रतिपादिके इमे द्वे गाथे जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रोक्ते “सोलसदेव सहस्सा वहंति चंदेसु चेव रेसु । अट्टेव सहस्साई, एक्केक्कंमि गहविमाणे ॥१॥ चत्तारि सहस्साइं, नक्खत्तमि य हवंति एक्केक्के । दो चेव सहस्साइं, तारास्वेक्कमेक्कमि ॥२॥ इति

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738