Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
६५८
चन्द्रप्रज्ञप्तिसूत्रे
संस्थितः । तावत् धातकीषण्डः खल द्वीपः कियत्कः चक्रवालविष्कम्मेण ? एवं विष्कमः परिक्षेपः ज्योतिषं यथा जोवाभिगमे यावत् तारा:
कियत्कः परिक्षेपेण आख्यातः १ इति वदेत् । तावत् चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेण एकचत्वारिंशत योजनशतसहस्राणि, दश च सहस्राणि, नव च एक षष्टानि योजन शतानि किञ्चिद्विशेषोनानि परिक्षेपेण आख्यात इति वदेत् । धातकी षण्डे खलु द्वीपे कियत्का श्चन्द्राः प्रभासयन् वा ३ पृच्छा तथैव धातकीषण्डे खल द्वीपे द्वादश चन्द्राः प्रभासयन् वा ३, द्वादश सूर्याः अतापयन् वा ३, त्रीणि षट्र त्रिशानि नक्षत्रशतानि योगमयुञ्जन् वा ३ एककं षट् पञ्चाशं महाग्रहसहस्त्रं चारमचरन् वा ३, अष्ट शतसहस्राणि, त्रीणि सहस्राणि, सप्तच शतानि तारागणकोटीकोटीनां शोभामशोभन्त वा ३ । गाथा:-"घातकीषण्डपरिरयः एक चत्वारिंशद् दशोत्तराणि शतसहस्राणि । नव च शतानि एक षष्टानि किजिवद्विशेषेण परिहीनानि ॥१॥ चतुर्विशति शशिरवयः, नक्षत्र शतानि च त्रीणि षट् त्रिंशानि । एकं च शतसहस्र, षट्र पञ्चाशत् धातकी षण्डे ॥२॥ अष्टैव शतसहस्राणि, त्रीणि सहस्राणि, सप्त च शतानि धातकी षण्डे द्वोपे, तारा गण कोटि कोटीनाम् ॥३॥
तावत् धातकीषण्ड खलु द्वीपं कालोदः खलु समुद्रो वृत्तो वलयाकारसंस्थानसं
सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति । तावत कालोदः खल समद्रः किं समचक्रवालसंस्थितः विषमचक्रवालसंस्थितः ? समचक्रवालसंस्थितः नो विषमचक्रवाल संस्थितः एवं विष्कम्भः परिक्षेपः ज्यौतिषं च यथा यथा जीवाभिगमे तथा भणितव्यं यावत्ताराः ।
(तावत् कालोदः खलु समुद्रः कियत्कः चक्रवालविष्कम्भेण ? कियत्कः परिक्षेपेण आख्यात ? इति वदेत् तावत् कालोदः खलु समुद्रः अष्ट योजनशतसहस्राणि चक्रवाल विष्कम्मेण प्रज्ञप्तः, एकनवति योजनशतसहस्राणि, सप्ततिश्च सहस्राणि षट् पञ्चोत्तराणि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण आख्यात इति वदेत् । तावत् कालोदे खलु समुद्रे कियन्तः वन्द्राः प्राभासयन् वा इति पृच्छा, तावत् कालोदे खलु समुद्र द्विचत्वारिंशत् चन्द्राः प्राभासयन् ३ द्विचत्वारिंशत् सूयाः अतापयन् वा ३ एकादश षट् सप्ततानि नक्षत्रशतानि योगमयुञ्जन् ३, त्रीणि सहस्राणि षट् षण्णव तानि चारमचरन् वा ३, अष्टाविंशतिश्च शतसहस्राणि, द्वादश सहस्राणि, नववशतानि पञ्चाशत् तारागण कोटीकोट्यः शोभामशोभन् वा शोभन्ते वा शोभिष्यन्ति वा । गाथा:"एकानवतिः सप्ततानि सहस्राणि परिरयस्तस्य। अधिकानि षट् पञ्चोत्तराणि कालोदधि वरस्य ॥१॥ द्विचत्वारिंशच्चन्द्रा, द्विचत्वारिंशच दिनकरा दीप्ताः । कालोदधौ एते, चरन्ति संबद्धलेश्याकाः ॥२॥ नक्षत्रसहस्रमेकमेव षट् सप्ततं च शतमन्यत् । षट् च शतानि षण्णवतानि महाग्रहाः त्रीणि च सहस्राणि ॥३॥ अष्टाविंशतिः कालोदधौ द्वादश च सहस्राणि नव च शतानि पञ्चाशतानि तारागण कोटि कोटीनाम् ॥४॥
तावत् कालोदं खलु समुद्र पुष्करवरो नाम द्वोपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति । तावत् पुष्करवरः खलु द्वीपः किं समचक्रवालसंस्थितः ? विषमचक्रवालसंस्थितः ? तावत् समचक्रवालसंस्थितः नो विषम चक्रवालसंस्थितः । एवं विष्कम्भः, परिक्षेपः, ज्यौतिषं यथा जीवाभिगमे यावत्ताराः।
Loading... Page Navigation 1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738